________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः।
३३
(ललिकामालोक्य ।) कथं कनकाङ्गया अप्यङ्गेषु भूषणान्यर्पयसि ।
जेतुं कल्पलताशिल्पमा कल्पं सखि कल्पताम् ।
अकल्पा कल्पकल्पे ते वपुष्याकल्पकल्पनाम् ॥ ११७ ॥ (साकृतम् ।) किं ब्रवीषि--'देव, अदो ज्नेव आहरणाई अप्पयिस्सम् । अङ्गेमु लावण्णतरङ्गएपु णिसग्गसोहग्गसमग्गदेसे । देहूण लोअस्स अलोअणाइंणं संकिदा भूसणमप्पइस्सम् (!)११८(क) इति। अयि, कुशलासि । यतस्त्वमस्याः अङ्गकान्यपिदधासि नताङ्गया भूषणैर्जनदुरीक्षणभीत्या ।
चञ्चलासि पथि चम्पकवल्लयाः पल्लवैरिव परं कुसुमानि ॥ ११९ ॥ (क्षणमात्र निर्वण्य ।) अयि, विफलोऽयं तवायासः ।
अङ्गानामपिधानमाकलयसे मुग्धे मुधा भूषणै
मजन्त्यत्र तु भूषणानि सुतनोरङ्गप्रभास्त्रोतसि । लीलासु श्रवणोत्पले नयनयोः स्मेरे च हारावली
लाक्षाश्रीः पदपाटलिम्नि तनुभा सीमासु हेमाम्बरम् ॥ १२० ॥ (पुननिर्वण्य ।) अस्याः
कर्णान्ततान्तनयनान्तविलोकनश्री
संछादितश्रवणपूरसितेतराब्जम् । मन्दस्मितद्युतितिरोहितचारुनासा
मुक्ताफलं वितनुते वदनं मुदं नः ॥ १२१ ॥ (सानुरागं सपुलकोद्भेदं च विभाव्य ।) अयि प्रेयसि, किं करोमि । पद्मेन्दीवरकुन्दचम्पकजपाजातीषु जातस्पृहं
क्रीडाकाञ्चनशैलतुङ्गशिखरारोहावरोहालसम् । (क) देव, अत एवाभरणान्यर्पयिष्ये ।
अङ्गेषु लावण्यतरङ्गितेषु निसर्गसौभाग्यसमग्रदेशे ।
दृष्ट्वापि लोकस्य च लोचनानि ननु शङ्किता भूषणमर्पयिष्ये ॥ १. 'हारावलिः ' ख.
For Private and Personal Use Only