SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ काव्यमाला। अनादरमिव किं ब्रवीपि-कात्र भवन्तमाकारितवती' इति । (सानुनयम् ।) कल्याणि, कथमनालोक्यैव मामधिक्षिपसि । पुनः किं ब्रवीषि—'किं त्वामालोक्य भाग्यमुपगन्तव्यम्' इति । अयि, नास्ति किमपि किं मयि । किं ब्रवीषि-'नास्त्येव । चौर्येणैव कृतं हि कुक्षिभरणं जन्मप्रभृत्यन्वहं __ गोपीनां पणदानशून्यसुरतक्रीडाऋणं चेत्पुनः । दुर्वारं तव जन्मकोटिभिरपि त्वं कृष्ण तत्तादृशः किं मे दास्यसि किं तवास्ति च वयं किं वा ग्रहीप्यामहे ११३' इति। मुग्धे, न जानासि। नित्यं श्रीरनपायिनी मम परं धामापि रत्नाकरः शक्रादीनतिशेरते च विभवै त्यास्तदास्तामिदम् । किं चान्यत् । ऐश्वर्य महदस्ति षड्गुणम् किं ब्रवीषि-'क्व तद्दर्शय' इति । इह प्रख्याप्यतां तत्कथं पुनः किं ब्रवीषि-'किमिति न प्रख्यापनीयम्' इति । प्रच्छन्नोऽद्य किलास्मि तन्वि समये सर्वं त्वमेवैष्यसि ॥११४॥ (विहस्य ।) किं ब्रवीषि--'यां कांचिदेवं वञ्चय चञ्चलदृशम् । मम तु जातचिदपि पुरो मैवं वादीः' इति । (स्मित्वा ।) अद्य यद्यपि मद्वचनं न रोचते तदा त्वमेव पुनः स्मरिप्यसि । (इत्यन्यतो गत्वा सस्पृहमालोक्य ।) कथमिहालंकरोति लवङ्गिका कनकाङ्गीम् । तथाहि । निबिडानुषक्तकुचकोकदंपती मुखतारकापरिवृढेन शासितुम् । अवतारितेव निजतारकावली हरिणीदृशः स्फुरति हारवल्लरी ॥११॥ (उपसृत्य ।) अनया तावदिदानीम् आत्मनैव विधृतापि मुग्धया हारयष्टिरधरांशुपाटला । विद्रुमावलिधिया विलोलया दृश्यतेऽपि परिमृश्यते मुहुः॥११६॥ १. स्थित्वा' ख-ग. २. पुरः' ख-ग. ३. अग्रतो' ख-ग. ४. निबिडं निषक्त' ख-ग. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy