________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः। रम्भाकेलिकुतूहलापहरतारम्भाधिकप्रौढया
पुंभावं गतया त्वया जगति यो रम्भोरु संभाव्यते ॥ १०७ ।। सखि, किं ब्रवीषि---'भाव, केवलं सुरतरङ्गिणीरिङ्गद्गुरतरङ्गसंगतवचोभीङ्गभिरेव मामुत्तुङ्गयसि । न पुनरनङ्गविलासनटनरङ्गैरङ्गैः' इति । सखि, मा मैवं वादीः । तर्हि सायमायास्यामि । (पदान्तरं गत्वा सदृष्टिक्षेपम् ।) कथमग्रत एव मुदमुदञ्चयति चन्द्रमुखी ।
क्रीडोक्षिप्तभुजामृणाललतिकापाशान्तराले बला
द्ववेन्दु विरचय्य वैरिणमिदं वक्षोजकोकद्वयम् । हादुन्नमतीव वारिजदृशो वक्षःसरोमण्डला
निद्राभङ्गनिरूढजम्भणजुषो मुग्धाङ्गभङ्गोत्सवे ।। १०८॥ (अन्यतो विलोक्य ।)
वक्षोजौ निबिडं निरुध्य सिचयेनाकुच्य मध्यं शनैः _ कृत्वा चम्पकतैलसेकमबला संपीड्य मन्दं शिरः । पाणिभ्यां चलकंकणोद्यतझणत्कारोत्तराभ्यां करो
त्यभ्यङ्गं परिपश्यतोऽस्य चपलं दोरन्तरं प्रेयसः ॥ १०९ ॥ (कतिचित्पदानि गत्वा । सानन्दम् ।) इयमिह
जानुभ्यामुपविश्य पाणिनिहितश्रोणीभरा प्रोन्नम
होर्वल्ली नमदुन्न मत्कुचतटी दीव्यन्नखात्रावलिः । पाणिभ्यां चलकंकणोद्यतझणत्कारावतारोत्तरं बाला नह्यति किं निजालकभरं किंवा मदीयं मनः ॥ ११०॥ मञ्चेतसा सह भुजद्वयमुन्नमय्य
धैर्यण मे सममसाववधूव भूयः । बध्नाति कुन्तलभरं कुटिलान्तकेशी
साकं ममैव कथमद्य विलोचनाभ्याम् ॥ १११॥ (उपमृत्य।)
कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने ।
दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहम् ।। ११२ ॥ १. 'वादीः' ख-ग-पुस्तकयो स्ति. २. पाणिभ्यामवधूय कंकणझणकारावतारोत्तरं ख-ग.
For Private and Personal Use Only