SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । किं ब्रवीषि-'भाव, मुरलीवल्लभस्य कथं तेव मादृशीषु तेरलीभावः । तथाहि । संकेतानयनाय सारसदृशां सा कृष्ण ते दृतिका क्रीडालापकलापगानचतुरा केलीवयस्या च सा । त्वबिम्बाधरचुम्बनाढतमुखी सैवान्ततः प्रेयसी या ते पाणिपरिग्रहेण मुरली नानामुखं जल्पति।।१०३॥ इति । (अपवार्य ।) वयस्य संतानक, सांप्रतं सफलतपःसंतान इव लक्ष्यसे । यतः । वक्षस्ते दृढलग्नकर्कशकुचद्वन्द्वावभुग्नान्तरं कण्ठः कंकणरत्नकोटिकलनासुव्यक्तमुद्राङ्कितः । व्यत्यासव्यतिधचितश्च तिलक: फाले तवायं सख कस्याश्चित्प्रकटीकरोति सुरतप्रौढिं परां सुभ्रवः ॥ १०४ ॥ वयस्य, किं ब्रवीषि--'अस्या एव । अथ किं विविधकरणकल्पनातिशिल्पं सपुलकचुम्बनडम्बराभिरामम् । कलरवकलकूजितात्तकण्ठं निधुवनकौशलमद्भुतं नताङ्गयाः ॥१०॥' इति । (सौत्सुक्यम् ।) का सा रसिका युवमनःकासारसारसिका । किं ब्रवीषि'इयमेव' इति । (सबहुमानम् ।) कुसुमशरविधेयं कोमलं रूपधेयं ___ तदनुगुणविकासस्त्वगुणानां विलासः । किमितरमिह लोकानन्दहेतुस्त्वमेका ___ तव रतिसुखभाजः कामिनोऽपि धुराजः ॥ १०६ ॥ (सप्रश्रयम् ।) किं ब्रवीषि—'भाव, किमेवमनुचितं निजेऽपि जने कथयितुमुचितम्' इति । सत्यमनुचितमेवेदं यत्त्वदनुभवरसिका धुराज इति । यतः । जम्भारेरपि पाशपादतरुणीजाराज्जयन्तादपि स्वैराश्लिष्टसुराङ्गनाकुचभराद्धन्यश्च मान्यश्च सः । १. 'तव' क-पुस्तके नास्ति. २. 'तरलभावः' ख-ग. ३. 'नानाविधं' ख-ग. ४. 'अस्या एव' ख-ग-पुस्तकयो स्ति. ५. 'कमलकासार' ख-ग. ६. 'कामिनां नामधेयं' ख-ग. ७. 'इतरतू' ख-ग. ८. 'पश्यपाद' ख-ग. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy