________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९
मुकुन्दानन्दभाणः । नीवीमथ श्लथयितुं निभृतं करेण
नीलोत्पलाक्षि यतते नितरां मनो मे ॥ ९८ ॥ किं ब्रवीषि-'भवतु नाम । याहि, सायमायाहि' इति । तर्हि गच्छामि । (इत्यन्यतो गत्वा विलोक्य ।) कथमत्रैव काञ्चनलतासंतानको । (निर्वर्ण्य ।) इयमिदानी
विलोकयन्ती मुकुरे विलासान्मुखाम्बुजं मुग्धकुरङ्गनेत्रम् ।
कर्पूरपङ्केन करोति बाला बालेन्दुलेखातिलकं ललाटे ॥ ९९ ॥ (उपसृत्य ।) सखि,
तप्त्वा तपो हरशिरस्तटिनीतटान्ते
मुक्त्वा कलङ्कमाथि ते मुखभावलाभात् । बालेन्दुचारुतिलकेन चिराय बाले
चन्द्रोऽन्वविन्ददिव नन्दनजन्मशर्म ॥ १०० ॥ सविनयं किं ब्रवीषि-'चिराय स्मरणसरणीमधिरोपितास्मि भावेन' इति । सखि, मा मैवम् । अद्यापि
वल्गत्कुचानि वलनासहमध्यमानि ___ कण्ठोदयत्कलरुतानि गलत्कचानि । आस्वादिताधरदलान्यलसेक्षणानि
तान्येव तन्वि सुरतानि तव स्मरामि ॥ १०१ ॥ किं च ।
ध्वान्तप्रान्तपरीतशीतकिरणं निद्रालुनीलोत्पलं
मन्दोदश्चिकपोतनादमधुरं शश्वद्गलत्तारकम् । चक्रद्वन्द्वविलासनाट्यचतुरं चश्चत्तुषारोदयं
चेतो मे समयं तमेव सुदति प्राप्तुं पुनर्वाञ्छति ॥ १०२ ।।
१. 'नामाद्य' ख-ग. २. 'इति' क-पुस्तके नास्ति. ३. 'इत्यग्रतोऽवलोक्य' ख. ४ रेखातिलकं निटाले' ख. ५. 'लोभात्' क. ६. 'रोहितास्म्यस्मद्भावेन' ख.
For Private and Personal Use Only