________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
काव्यमाला ।
बढवा दोर्ध्यामभिमतगृहे मामधस्तान्निपात्य
द्रागारुह्य स्तनगिरिहतोरस्कमास्कन्दयन्ती । तावत्कान्ते रचय सकलं साहसं हृद्गतं ते
श्रान्ता यावत्कनकसुमनोमालिकेवासि तान्ता ॥ ९५ ॥ किं ब्रवीषि-'अद्य दिनमुखे कस्य वा मुखमवलोकितमित्थमनेन विवदितुम्' इति । (सस्मितम् ।) अयि मानिनि, तदपि में मुखावहं संभावयामि ।
शनैरुत्तिष्ठन्त्यास्तव करते हेमवसने __ हठादाकृष्टे सत्यतिभृशनमगात्रलतिका । सरोषं सबोडं सुमुखि मुखमालोकितवती
प्रभाते यस्य त्वं स्मरसि कृतिनस्तस्य न कथम् ॥ ९६ ॥ किं ब्रवीषि—'कुतः स्वमानमविज्ञाय सीमानमतिक्रामसि' इति । (स्वगतम् ।) इयं सुलभकोपा सर्वथा परिहासवचोऽपि मे परमार्थ मन्यते । तदन्यतो नयामि । (प्रकाशम् ।) अयि प्रिये, मा कृथा मयि था कोपाडम्बरम् । अम्बरमाभरणानि वा यदभिलषितं तदाशु वृणीष्व । वितरिप्यामि । साञ्जलिबन्धं किं ब्रवीषि--'अलं तावदतिवदान्यतया । याचामहे जातु न किंचन त्वां पुण्यप्रदानादधिकं तवेदम् । गोपाङ्गनाचारुदुकूलचोरो यत्कृष्ण मुष्णासि न विद्यमानम् ॥९७॥' इति । मुग्धे, न जानासि जाराणां चोरः खलु मुख्यः। सस्मितं किं ब्रवीषि'भाव, सत्यं चोर एवासि । यदेवं मोचारसमुचा वाचा मे चेतश्चोरयसि । (सानन्दम् ।) सखि, यदि प्रसन्नमुखी जातासि, तर्हि शृणु ।
आलिङ्गय गाढममलाङ्गि तवाङ्गमङ्गै
रापाटलं त्वदधरं मधुरं निपीय । १. 'आरुद्ध' क. २. 'किमहं न जानामि' ख. ३. 'कृते' ख-ग. ४. 'अविज्ञाय सीमानम्' ख-ग-पुस्तकयो स्ति. ५. यावदन्यतो' ख-ग. ६. 'मुधा' ख-ग. ७. 'अङ्गमङ्ग ख-ग.
-
For Private and Personal Use Only