SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः जीवानन्दनम् । ४७ मत्री-(विहस्य ।) भोजनेन तत्प्रकारस्य तत्साधनस्य च श्रवणे कुतूहली भवान् । (प्रविश्य) दौवारिक:--महाराअ, उवाअणहत्था सामन्तभूवाला संपत्ता मए वि तिदीअकच्छं पवेसिदा महाराओ पेक्खिदव्वोत्ति चिट्ठन्ति । (क) (राजा मन्त्री च तद्दर्शनप्रदानाय निर्गमनं नाटयतः ।) विदूषकः—(आत्मगतम् ।) अए दासीएपुत्तेहिं सामन्तराएहिं मम ऊसाहभङ्गो किदो। (ख) (इति तदनुसरणं नाटयति ।) मत्री-एते स्वामिनं प्रणमन्ति । राजा-(आकाशे ।) अपि कुशलिनो यूयम् । मत्री-एते 'स्वामिनः कुशलप्रश्नेन कृतार्थाः स्मः' इति वदन्ति । विदूषकः-(स्वगतम् ।) बुभुक्खिदस्स मह अकुसलं ति ण जाणादि वअस्सो । (ग) मत्रीकश्चित्स्वर्णौवमेको मणिगणमपरो भूषणबातमन्यः क्षौमस्तोमं परोऽश्वान्रथकुलमितरो बालमातङ्गसंघम् । सामन्तक्षोणिपालेप्वहमहमिकयोपाहरदृष्टिपातै देवस्यानुग्रहीतुं सकरुणमुचितं सर्वमित्यर्थयेऽहम् ॥ ८ ॥ अपि च । हंसाश्चित्रगताः शुकाः स्फुटगिरो लावा मिथोऽमर्षिणः श्येनाः शीघ्रजवाः शिखण्डिन उपारोहत्कलापोच्चयाः। आनीतास्तपनीयपञ्जरगता भूपैरमीभिर्मुदा किं चावेक्षितविक्रमाश्च मृगयाकालेषु कौलेयकाः ॥९॥ (क) महाराज, उपायनहस्ताः सामन्तभूपालाः संप्राप्ता मयापि तृतीयकक्षां प्रवेशिता महाराजः प्रेक्षितव्य इति तिष्ठन्ति । (ख) अये, दास्या:पुत्रैः सामन्तराजैर्ममोत्साहभङ्गः कृतः । (ग) बुभुक्षितस्य ममाकुशलमिति न जानाति वयस्यः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy