SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। राजा-मन्त्रिन्, दत्तानि भूपतिभिरेभिरुपायनानि तेषां वशे कुरु मयाधिकृता नरा ये। एतान्सभाजयितुमर्पय तत्तदर्हा ___ न्युष्णीषकञ्चुकदुकूलविभूषणानि ॥ १० ॥ मन्त्री—यथाज्ञापयति देवः ।। विदूषकः-णं वअस्स, मए वि विजई होइत्ति वाआमेत्तेण तुह उ. वाअणं दिण्णं तदो बुभुक्खिदं मं किं त्ति ण संभावेसि । (क) मत्री-राजन् , श्रोतव्यः कार्यशेषः । विदूषकः-हुं, चिट्ठदु दासीए वच्छो कजसेसो । वअस्स, किं मह पडिवअणम् । (ख) राजा-मन्त्रिन् , ब्राह्मणस्य प्रथमं भोजनं निवर्तयेति अन्तःपुरं गत्वा देवीं वद । अतः प्रागेव संभाव्यात्र सामन्तभूपान्स्वस्थानं प्रेषय । वयस्य, त्वमपि मन्त्रिणा सह गच्छ । विदूषकः-दीहाओ होइ । (ग) मत्री–विजयी भवतु देवः । (इति विदूषकेन सह निष्क्रान्तः ।) राजा-कः कोऽत्र भोः। (प्रविश्य) दौवारिकः-आणवेदु महाराओ । (घ) राजा-मज्जनगृहमार्गमादेशय । दौवारिकः-इदो इदो भवं । (ङ) (परिक्रम्यावलोक्य च संस्कृतमाश्रित्य ।) (क) ननु वयस्य, मयापि विजयी भवेति वाचामात्रेण तवोपायनं दत्तं तद्धभुक्षितं मां किमिति न संभावयसि । (ख) हुं, तिष्ठतु दास्या वत्सः कार्यशेषः । वयस्य, किं मम प्रतिवचनम् । (ग) दीर्घायुर्भव । (घ) आज्ञापयतु महाराजः । (ङ) इत इतो भवान् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy