SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। ___ मत्री-मध्याह्न इति बुभुक्षिताः परिजनाः । ततः स्नानार्थमुत्तिष्ठतु महाराजः। (राजा उत्तिष्टति मन्त्री च ।) विदूषकः-(श्रुत्वा ।) एवंवादिणो मन्तिणो होदु पुण्णलोओ। (उपसृत्य ।) जेदु जेदु महाराओ । (क) राजा-वयस्य, कथमागतोऽसि । विदूषकः-(मन्त्रिणं प्रति ।) अवि कुसलं अमच्चस्स । (ख) मत्री-कथमभ्यवहारसमय इति प्राप्तोऽसि । विदूषकः-दाणि जेव्व णिअघरे भोअणं कदुअ आअदेण अजेण वि किं ण विण्णादं मज्झह्रो वट्टदित्ति । (ग) - मत्री-विज्ञातमेव । श्रूयतामिदानीम् । यूना सस्पृहदृश्यमानकबरीभारोरुपीनस्तनी __पान्थेनाध्वनि शालिगोपवनिता शून्ये स्फुरद्यौवना । आसन्नां......"वारणबुसापत्रापनीतातपा मारामक्षितिमापगातटगतां साकूतमालोकते ॥ ७ ॥ विदूषकः-(समुखभङ्गम् ।) अण्णस्स पुरिसस्स अण्णाए इत्थिआए संपक्कसूअणं णाम अणुइदं किं ति वण्णीअदु अजेण । जइ मज्झनो वण्णणीओ त्ति आग्गहो तदो माणवाणं संभाविदं पाणभोअणं वण्णीअदु । जेण सुदमेत्तेण वि मह संतोसो होदि । (घ) (क) एवंवादिनो मन्त्रिणो भवतु पुण्यलोकः । जयतु जयतु महाराजः । (ख) अपि कुशलममात्यस्य । (ग) इदानीमेव निजगृहे भोजनं कृत्वा आगतेनार्येणापि किं न विज्ञातं मध्याहो वर्तत इति । (घ) अन्यस्य पुरुषस्यान्यया स्त्रिया संपर्कसूचनं नामानुचितं किमिति वर्ण्यते आर्येण । यदि मध्याह्रो वर्णनीय इत्याग्रहस्तदा मानवानां संभावितं पानभोजनं वर्णयतु । येन श्रुतमात्रेणापि मम संतोषो भवति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy