SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] जीवानन्दनम् । प्रासादोदरपुञ्जितप्रतिरवप्राग्भारदीर्धीकृतं सद्यः पञ्जरगर्भ एव चकितानुद्रामयन्तं शुकान् । कार्यव्याप्रियमाणमानवमुखं कर्षन्तमात्मोन्मुखं __ मध्याह्नागमसूचनाय पटहो धत्ते ध्वनि ताडितः ॥ २ ॥ संप्रति हि घोरातपसंतापमसहमानाः प्राणिनः प्रायेण प्रच्छायशीतलं प्रदेशमावासाय प्रार्थयन्ते । तथा हि। आसीदन्ति विशालशैलशिखरभ्रश्यन्नदीनिझरां शुक्लापाङ्गकुलानि सूर्यकिरणैः शून्यामरण्यावनीम् । आवर्तस्फुटपुण्डरीकमुकुलप्रेङ्खोलनोद्गन्धिना तृप्यन्तो मरुता स्वपन्ति च नदीतीरे बिलेषूरगाः ॥ ३ ॥ मत्री-अहो यौवनश्रियं पुष्णात्येष दिवसः । यतः । छायाशीतलमध्वनि द्रुमतलं चण्डातपोपप्लुताः शौरिं दानवपीडिता इव सुराः पान्था भनन्ति द्रुतम् । दुष्कीर्ति क्षितिपा इव प्रकृतिभिर्लोभावधूतार्थिनो गाहन्ते च करेणुभिः सह नदीमारण्यका वारणाः ॥ ४ ॥ अपि चेदानीम् धर्माम्भःकणलुप्यमानमकरीपत्राङ्कुरालंक्रियं ___ भूयिष्ठोद्गतक्रियानिलगलन्मासृण्यबिम्बाधरम् । ताम्यल्लोचनतारकालसगतिव्याख्यातनिद्रागमं प्रच्छाये पथि रोचते स्थितवते पान्थाय कान्तामुखम् ॥ ५ ॥ राजा-(स्वगतम् ।) नन्वस्मिन्नवसरे स्नातव्यं जपितव्यं वसितव्यं नमसितव्यमत्तव्यम् । अ........."मनुकूलं दैवतमत्र क्रमेण मया ॥ ६ ॥ (प्रकाशम् ।) किमतःपरमाचरितव्यम् । बिलं प्रवेशितो मण्डूक इव किमप्यनक्षरं प्रलपन्नमात्यो .........."तिष्ठति । तत्समयं प्रतिपालयिष्यामि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy