________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
काव्यमाला।
(ततः प्रतिशति राजा मन्त्री च ।) । राजा-(कणे दत्त्वा।) कार्यपर्यालोचनयातिक्रान्तोऽप्यदिवसो न ज्ञातः। यत इदानीम्
पात्रगतं गृहहरिणस्तृष्णया पिबति शीतलं सलिलम् ।
गन्धेन करोति सुखितं घ्राणं घृतमिश्रशर्करापूपः ॥ अहो प्रमादः। राजसमीपं गमिष्यामीति महानससमीपं गतोऽस्मि । अत एव तथा वर्तुलतनुतरगोधूमापूपसंहितशरावैः माहिषदधिमण्डमिश्रितमाषविरचितभक्ष्यविशेषनिबिडितभाजनैः परितप्ताम्बरीषभर्जितचणकचयपूरितपिण्डकैः फाणितसंकलितयवधानासमुलुसितविशालामत्रैः दुग्धदधिशर्करासलिलभावितविविधपृथुकराशिसंपूर्णविषङ्कटचषकविशेषैः मल्लिकामुकुलपुञ्जधवलशालितण्डुलान्नसमुच्चयविराजितताम्रमयभाण्डगणाभ्यन्तरस्थापितसुवर्णसवर्णसूपनिधानपिठरैः कृत्तपरिपक्कवृन्ताककारवेल्लपटोलकोशातकीनिष्पावराजमाषकदलीपनसकूष्माण्डप्रमुखशलाटुखण्डमयशाकषण्डमण्डितबहुविधभाजनविशेषैश्च परिशोभमानस्य महानसस्य विसृमरो गन्धः । घुमघुमायते मे नासाबिलम् । सिलसिलायते तालुरसनामूले सुनिर्गत्वरं लालाजलम् । प्रज्वलतीव हनूमद्वालाग्रलग्नाग्निशिखागृहीतगृहपरम्परं लङ्कापुरमिव बुभुक्षातुरं मे उदरम् । इह खलु महानसद्वारदेशेऽवनतपूर्वकायो विलोक्यते चुलीपावकप्रज्वलनार्थफूत्कारपवनविकीर्णभसितलेशपुञ्जधूसरमुखो निटिलदृश्यमानविरलस्वेदाम्बुकणिक/कराङ्गुलिलग्नहिङ्गुपरिमलसंतर्पितसमीपगतजनघ्राणेन्द्रियः ईपत्संक्रमितेङ्गाललाञ्छितपरिधानपटो दक्षिणकरगृहीतदर्वीशिखरतनुतरदृश्यमानविलोलितशाकपाकबाष्पः अन्यकरलम्बितेन्धनशकलो भद्रमुखो नाम पौरोगवः । तदेनमेव पृ. च्छामि । अये भद्रमुख, त्वया पक्केषु भक्ष्यविशेषेषु किमपि किमपि मम हस्ते दातव्यं यद्भक्षयित्वा इदं सुष्ठ इदं नेति विचार्य कथयामि यत्सुष्ठु तत्परिवेष्य राज्ञो हस्तात् पारितोषिकं गृह्णातु भवान् । कथमेष दास्याःपुत्रः 'यदि तव बुभुक्षा तदा राज्ञः समीपं गत्वा भोजनं दातव्यमिति पृच्छ । अहमुदरंभरेस्तव किमपि न दास्यामि' इति भणित्वा महानसाभ्यन्तरं गतः । भवतु । राजसमीपं गमिष्यामि । कथमत्र राजसमीपे विजने अलगर्देन गृहीत्वा
For Private and Personal Use Only