________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः ।
परंतु नक्तंदिवमपि पतिपार्श्ववर्तिनी सा कथमनुवर्तनीया तत्रभवतेति तरलं भवति मे चेतः । किं ब्रवीषि-'यत्किचिदेतत् । यतः ।
कथितसमये गत्वा गूढं मया लिखिता नखैः
स्वपिति शयने पत्यौ पार्श्वेऽप्यहो परिसत्य सा । तमपि निपुणालिङ्गयैवालं भुजालतयैकया
चपलनयना मां च क्रोडीकरोति तदन्यया ॥ ८२॥ इति । (साश्चर्यम् ।) अहो श्रोत्रियस्य साहसम् । (मरालिका प्रति ।)
विधत्तां संकेतं विशतु सदनं वा कथमपि
क्रमात्तस्यां गूढं किमपि कुरुतां वा मृगदशी । प्रबुद्धे पत्यौ चेदयमपि भवेत्कीदृशदशो
__ वराकी वा सा तद्बुजवलयलग्ना सखि तदा ॥ ८३ ॥ पौराणिक, किं ब्रवीषि-'प्रबुद्धेन तेन वा किं कर्तव्यम् ।
गुर्जरीणां कुलाचारक्रमोऽयं यदृहे गृहे ।
पौराणिकः पुरोधा वा भृत्यो वा गूढवल्लभः ॥ ८४ ॥ तदलमतिप्रसङ्गेन । साधयामि' इति । साधय, साधय । अहमपि वेशवाटिकां गच्छामि । (मरालिकामालोक्य ।) सखि, पुरोहितपुत्रस्य वीतिहोत्रस्य प्रवृत्तिमचिरेण ज्ञातुमर्हसि । किं ब्रवीषि-'तस्स अ ताए तुह दइआए अ उत्तन्तं सम्मं ओलहिअ तुज्झ अन्ज एव णिवेदेमि' (क) इति । सखि, साधु । गन्तव्यम् । (परिक्रम्यावलोक्य च ।) एषा किल योषाकैलभाषाजितरोषावृतकीरायुतकारायितमणिमञ्जुलरुचिपिञ्जरनवपञ्जरमालाशतलीलायुतप्रतिसदनप्रतिहारा पारावतवाराश्रितविटङ्का धारायन्त्रशतसंतानितजलबिन्दुकंकणा कुङ्कुमरसपङ्किलसदनाङ्गणा लङ्केव लक्ष्यमाणा
(क) तस्य च तस्यास्तव दयितायाश्च वृत्तान्तं सम्यगुपलभ्य तवाद्यैव निवेदयामि ।
१. 'स्वपतिशयने' क. २. 'मग्ना' ख-ग. ३. 'जन' ख-ग. ४. रोषाधृत' क, रोषायित' ख. ५. 'जलबिन्दु' ख-ग-पुस्तकयो स्ति.
For Private and Personal Use Only