________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
काव्यमाला।
'मध्यं विष्णुपदं कुचौ शिवपदं वक्त्रं विधातुः पदं
धम्मिलः सुमनःपदं प्रविलसत्काञ्ची नितम्बस्थली । वाणी चेन्मधुराधरोऽरुणधरः श्रीरङ्गभूमिर्वपु__स्तस्याः किं कथयामि पुण्यचरितं मान्या सदा निरैः ॥७६॥' इति । (सबहुमानम् ।) तत एव तत्रभवान्महीयते । भवतु । तत्रभवति कीदृशी तस्या मनोवृत्तिः । किं ब्रवीषि----किमपूर्वमिव पृच्छसि ।
पुरुषोत्तमाय भवते देवायेदमिति मे समर्पयति ।
सायंतननीराजनसमये वीटीशतं वटी सा ॥ ७७ ॥” इति । सत्यं जानामि ।
धर्मोपदेशगुरुरित्यग्विलान्प्रतार्य
वाह्योपचारशतमातनुते नतभूः । अभ्यन्तरे तु रतिदेशिक इत्यनङ्ग
तत्त्वं तदेव कुरुते गुरुदक्षिणां ते ॥ ७ ॥ (अनादरमिव ।) किं ब्रवीषि--'सखे, किमेतावतैव मे साम्राज्यम् ।
कूपोसगूढकुचपङ्कजकुमलानां
को नाम शंसति रतिं भुवि गुर्जरीणाम् । अज्ञातचोलदुरुपद्रवचोलनारी
पीनस्तनस्तबकमण्डलदत्तहस्तः ॥ ७९ ॥ इति । (आत्मगतम् ।) सर्वोऽपि जनः सजातीयमेव प्रियं मन्यते ।
ये भुवि यज्जातीयास्तज्जातीयासु तेऽनुरज्यन्ते ।
शुकयोपिपिकयूनोरुदयति किं प्रीतिरन्योन्यम् ॥ ८ ॥ (प्रकाशम् ।) अये, कस्ते चोलनारीपु पक्षपातः ।।
चोलच्छन्ना यदि कुचतटी दुर्लभा गुर्जरीणां
कच्छाभावादलघुजवनं तर्हि शक्यावमर्शम् । तव्यत्यस्तं द्रविडसुदृशामन्ततः किं ततः स्या
देकत्रैकं भवति मुलभ तद्वदन्यत्र चान्यत् ॥ ८१॥ १. 'सखे, किम पवमेव' ख-ग, २. 'अर' क. ३. 'चोलोप' ख-ग,
For Private and Personal Use Only