SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकुन्दानन्दभाणः । २ तह तह पढइ पुराणं तह तह वक्खाइं अत्थेवि । तह तह पेक्खइ किदवो जह जह रजन्दि बालविहवाओ ॥ ७३ ॥ एदं क्खु सुणिदं जं मुग्गलभट्टोत्ति । किंदु चिदम्बरभटोत्ति एव्व किल एदस्स णाम' (क) इति । सत्यं चिदम्बरभट्ट इति तातकृतं नाम । गुर्जरास्तु मुद्गलभट्ट इत्याह्वयन्ति । भवतु तावत् । एनमालापयामि । (उपमृत्य । एक हस्तमुत्तंसयन् ।) पौराणिक, प्रणम्यसे भुजंगशेखरेण । किं ब्रवीषि-- 'सकलरंतिकलादेशिकेऽपि त्वयि कामाशिषमाशास्महे' इति । (सविनयम् । कथमलीकवचोभिरेव मेयि गौरवमारोपयसि । किं ब्रवीषि—'अपि नाम ममापि वचनमलीक संभावयसि । स्मरसि तावदिदानीं त्वमेव उत्ताने शयने ललन्नुपहसन्नव्यक्तमालापय न्बाल्येऽपि व्रजसुभ्रवां रतिकलाः किं कृष्ण नोपादिशः । या दोलावलनच्छलादुपरि ते व्यातेनुरुत्कण्ठया यत्किचित्क्रममुच्चलत्कुचकचश्रेणीकमेणीदृशः ॥ ७४ ॥' इति । भवतु । कस्य गृहमद्य पवित्रीकर्तुमुद्यमः । किं ब्रवीषि-'गुर्जरस्य निर्जरदासस्य गृहम्' इति । (स्वगतम् ।) एष नक्तंदिवं तस्य मन्दिरं न विमुञ्चति । कलावत्यक्षियुगलमलोहनिगडं यतः ॥ ७५ ॥ (प्रकाशम् ।) तर्हि गृहिणीमिति वक्तव्यम् । किं भणसि-सा खलु विश्रुतपुण्यचरिता शक्नोति जगदेव पवित्रीकर्तुम्' इति । (सकौतुकम् ।) कथय तस्याः पुण्यचरितम् । किं वदसि(क) जानाम्येनं गूढपाल्लविकम् । अयं खलु तथा तथा पठति पुराणं तथा तथा वक्ष्यत्यानपि । तथा तथा प्रेक्षते कितवो यथा यथा रज्यन्ते बालविधवाः ॥ ७॥ एतत्खलु श्रुतं यन्मुद्गलभट्ट इति । किंतु चिदम्बरभट्ट इत्येव किलैतस्य नाम । १. 'रति' ख-ग-पुस्तकयोनास्ति. २. 'मम' ख-ग. ३. 'उत्तानं' ख-ग. ४. 'कस्य वा' ख-ग. ५. 'विश्वतः पुण्य' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy