________________
Shri Mahavir Jain Aradhana Kendra
२२
किं ब्रवीषि - 'तक्खु पुव्वदिणविअसिअं सरमिअम्, जदो उग्गयहि महुअरश्शेणी' (क ) इति । यद्येवमद्यैव विकसितं कमलाविलसितं दर्शय
www.kobatirth.org
किं च ।
काव्यमाला |
कमलम् । (निर्दिश्य ) किं ब्रवीषि - 'एदं पेक्ख । जत्थ ( ख )
---
इन्दिरावरविहारमन्दिरे मन्दमन्दमरविन्दकंदरे ।
गन्धतुन्दिलमरन्दसुन्दरे बम्भरा इह चरन्ति बन्धुरे ॥ ६९ ॥' इति । (मशिरःकम्पं तदेव पठित्वा ) सखि, कथमपूर्वमेव कथयसि समसंस्कृतप्राकृतं हृद्यं पद्यम् ।
कराग्रहादब्जनि केवलं ते विभुर्विवस्वानिति लोकवादः । आप्रातरासायमपास्तशङ्कं भुङ्गे रसं भूरि मिलिन्द एव ॥ ७० ॥
(पुनर्विलोक्य ।)
★
Acharya Shri Kailassagarsuri Gyanmandir
जन्मारभ्य प्रतिकलमसावारजोदर्शनं ते
भ्राम्यन्भृङ्गः क्षणगणनया वासरानत्यनैपीत् । त्वं तूने रजसि मरुता दक्षिणेनासि भुक्ता सोढव्यं तत्कमलिनि कथं तेन लोकेन वापि ॥ ७१ ॥
आलिप्ताः कुसुमपरागभस्मनामी
कापालव्रतमिव काममाचरन्तः ।
गायन्तः किमपि मधून भिक्षमाणा
गाहन्ते कमलगृहाङ्गणानि भृङ्गाः ॥ ७२ ॥
(पदान्तरं गत्वा ।) अयि, पश्य तावत् । एप पौराणिको मुद्गलभ इत एवाभिवर्तते । किं ब्रवीषि - ' जाणामि णं गूढपाछविअम् | अअं क्खु
(क) तत्खलु पूर्वदिनविकसितं सरसिजम्, यत उद्गच्छति मधुकर श्रेणी । (ख) एतत्पश्य । यत्र ।
१ 'विकसितकमल' क. २. 'बन्धुरे' ख-ग. ३. 'सुन्दरे' ख-ग. ४. ' कलयसि' क. 'गृहान्तराणि' ख- ग..
For Private and Personal Use Only