________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकुन्दानन्दभाणः ।
वयि स्नेहवत्या जटावत्या । वत्स, तथा प्रयतितव्यं यथा मन्दारदुहिता मञ्जरी पतिमन्दिरकन्दरभाजनं न भवेत् । तत्प्रथममुपदेशो भगवत्या जटावत्याः । तदुपरि प्रियसुहृदो निदेश इत्युभयथाप्यवश्यं करणीयमेव मे मञ्जरीगमनभञ्जनम्, तव च मनोरञ्जनम्' इति । (स्वगतम् ।) अहो मयि भगवत्या जटावत्याः प्रसादातिशयः, यदेवमप्रार्थिताप्यननुयुक्ताप्यात्मनैव कृतप्रयत्ना ममैव हितमातनोति । (प्रकाशम् ।) इत्थं कृतनिश्चये त्वयि तावदस्माकं
सहजप्रेमसरसे स्वभावचतुरे जने ।
किमर्पितात्मभाराणां वक्तव्यमवशिप्यते ॥ ६५ ॥ तदद्य सत्वरमेव त्वया गन्तव्यम् । किं ब्रवीपि- 'अहं गच्छामि' इति । (विलोक्य ।) कथमतिक्रान्त एव प्रियमित्रेण प्रमदवनपर्यन्तः । मरालिके, किं ब्रवीपि—'इदो कमलमित्तेण मित्तेण अक्कन्दो पुव्वगिरिपजन्तो' (क) इति । (प्राचीमवलोक्य ।)
घटमानकोककुचमामृशन्करैविकसत्ययोजनयनावलोकितः ।
परिचुम्बतीदमरुणप्रभाधरं रविरद्य वारवनितामुखं मुहुः ॥ १६ ॥ अथवा ।
भयो निपीय लवणाम्बुधिमाप्रभातं ___ पुञ्जीभवन्त्रुदयते तपनच्छलेन । और्वाग्निरम्बरपयोनिधिमद्य पातुं
लीनोडुबुद्बुदकदम्बमिति प्रतीमः ॥ ६७ ॥ (वामतोऽवलोक्य ।)
उन्निद्रपद्मकोशादुद्गच्छन्ती शनैरविच्छिन्ना ।
इयमिह मधुपश्रेणी स्मरकरखड्गश्रियं वहति ॥ ६८ ॥ (क) इतः कमलमित्रेण मित्रेणाक्रान्तः पूर्वगिरिपर्यन्तः ।
१. 'सिके' ख-ग. २. 'भयं' ख.
For Private and Personal Use Only