SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। कामं कृशैरवयवैः परिपाण्डुरेण __ गण्डस्थलेन च भृशालसया दृशा च । बिम्बाधरेण च मुहुर्मसृणीकृतेन मन्ये भवन्तमधुना भवदन्यमेव ॥ ६० ॥ किंचान्यत् । आरक्तमपरिमृष्टनवाश्रुपूरं पक्ष्मावपातभरदुप्प्रसरावलोकम् । एतत्तवालियुगलं विवृणोति कान्ता विश्लेषजं किमपि दुःखमसह्यवेगम ॥ ६१ ॥ तत्ति प्रस्थिता मञ्जरी पतिभवनम्' इति । (स्वगतम् ।) कथमयं जानात्येव प्रथममकथितमपि रहस्यम् । अथवा दैवज्ञानां किमविज्ञातमस्ति । (प्र. काशम् ।) अपि नाम पश्यसि ज्योतिःशास्त्रेण चक्षुपा मे चरितम् । यन्न वेत्ति परः किंचिदेकां मुक्त्वा जटावतीम् । या निष्कुटवने तन्वी मया तां समयोजयत् ॥ ६२ ॥ (विहस्य ।) किं ब्रवीषि--'किमेतत्परिज्ञानार्थमपि ज्योतिःशास्त्रं चक्षुरपेक्षितम् । यतः। क्रीडा परस्त्रीषु कियद्भिरेव दिनैनिगूढापि नै गढिमेति । पङ्के निखातापि गभीरतोये पाथोजिनी किं न भमुजिहीते ॥६॥' इति । यद्येवं तर्हि किमिति न परिहरन्ति न परिवदन्ति च पद्ममुखीम । किं ब्रवीषि----'मा मैवं वादीः । सुचरितमीदृशमखिलं सर्वे जानन्ति सर्वपाम् ।। न तु परिवदन्ति निपुणाः स्फुटतरमेते परस्परत्रासात् ॥ ६४ ॥ तत्कतिपयरेव दिवसैरियं स्वयं परिहरिप्यति सकलमपि वन्धुकुलम्' इति । (निःश्वस्य ।) वैयस्य, अतः परमखिलमपि संभावयामि, यदि तावदिदानी शार्दूलवदनबिलादवगलति सा हरिणाक्षी । किं वदासि--'सग्वे, नक्तमेवोक्तं १. निरूढिमेति' ख-ग. २. 'वयस्य' ख-ग-पुस्तकयो स्ति. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy