SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। गवद्भक्तिर्नाम कापि कल्पलता प्रथममङ्कुरिता पश्चादुपचितपरिचया च सा मम हृदयानुरञ्जनी क्रमेण भगवन्तौ परमेश्वरौ साक्षाद्दर्शितवती । अनितरसाधारणया च तया प्रसन्नौ भगवन्तौ संप्रत्यभिलषितान्रसगन्धकादीन्प्रसादीकृत्यार्पितवन्तौ । अग्रेऽपि तस्या एव महिम्ना सकलमप्यभिलषितं पुमर्थ लप्स्यामहे । बुद्धिः-अजउत्त, किं एदे रसगन्धआ अण्णणिव्वेक्खा स जेव्व विवक्खक्खवणं णिव्वहन्दि । (क) राजा-देवि, दिव्यौषधीभिः शोधिताः सन्तो विविधरसायनद्वारा उक्तसामर्थ्या ह्येते । देवी-ता एव्वं संविहाणसमत्थेण केण वि होदव्वम् । (ख) राजा-विज्ञानशर्मैवात्र निर्वोढा । यतः । . ऋषिरेव विजानाति द्रव्यसंयोगजं गुणम् । विज्ञानशर्मणः कोऽन्यः सर्वज्ञाननिधिर्ऋषिः ॥ २२ ॥ किं च । महेशतेजःसंभूतो रसः कारुणिकाग्रणीः । यः स्वानिष्टमुरीकृत्य परंपीडां व्यपोहति ॥ २३ ॥ तदुक्तम् 'मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति । अमरीकरोति हि मृतः कोऽन्यः करुणाकरः सूतात् ॥ २४ ॥ 'सुरगुरुगोद्विजहंसापायकलापोद्भवं किलासाध्यम् । श्चित्रं महदपि शमयति कोऽन्यस्तस्मात्पवित्रतरः ॥ २५ ॥' गन्धकस्यापि माहात्म्यमुक्तम् 'ये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति गन्धके । (क) आर्यपुत्र, किमेते रसगन्धका अन्यनिरपेक्षाः स्वयमेव विपक्षक्षपणं निर्वहन्ति । (ख) तदेवं संविधानसमर्थन केनापि भवितव्यम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy