SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] जीवानन्दनम् । मन्त्री—(श्रुत्वा सहर्षम् ।) समद्युत(?)प्राणनिरोधेन निधूतसकलतपोविघ्नेन विशुद्धाद्वैतज्ञानसाधनेन समाराधितयोबूंजटिधरराजकन्ययोः प्रसादेन राज्ञा रसो हस्तगतः कृत इत्यनेन वैतालिकवचनेन सूच्यते । (पुनर्नेपथ्ये ।। दिमण्डलम्य विमलीकरणे प्रवीणा निर्विघ्नमुत्सृजति नीरजबन्धुरंशून् । पङ्कश्च पान्थपदयोगममृष्यमाणः ___ संशोषमेत्य शकलीभवति क्षणेन ॥ १९ ॥ मन्त्री:-(श्रुत्वा ।) एतेनापि वचसा निरोगीकरणसमर्थान्रसान्प्रयोक्तं,, गज्ञस्तम्य च यक्ष्महतकस्य विनशितुं प्राप्तः कालोऽयमिति च सूच्यते । (सबहुमानम् ।) साधु रे वैतालिक, साधु । यदधुना गूढाभिप्रायेण भवता बोधितव्यं बोधितम् । तदेव वृत्तं सप्रकारमवगमयितुं राजानं प्रत्युद्गमनेन बहुमन्तुं च तत्रैव गच्छामि । (इत्युत्थाय आकाशे ।) अरे यक्ष्महतक, भवदीयमतःपरं पश्यामि शौण्डीर्यम् । (पुरो विलोक्य ।) कथमागत एव देवः । यतो देवी पुरोमार्गप्रदर्शिनी पुरो दृश्यते । यैषा धम्मिल्ले घनसंनिभे सिततडिद्वल्येव मल्लीस्रजा ___ वक्रेन्दो रुचिरेण नाभितिलकव्याजात्कलङ्केन च । हारेण स्तनकोकयोरपि बिसस्वच्छेन चायामिना पादाम्भोरुहयोश्च हंसकयुगेनाराविणा राजते ॥ २० ॥ अयमपि महाराजस्तस्या अनुपदमागच्छति । संप्रति हि एतस्य विचारविगमादिदं विलसति प्रसन्नं मुखं ___ गृहीतसुषमं हिमव्यपगमादिवाम्भोरुहम् । विषाणिन इव प्रतिद्विरददर्शनामर्षिणो गतिश्च किल मेदिनी नमयतीव धीरोद्धता ॥ २१ ॥ (ततः प्रविशति जीवो बुद्धिश्च ।) जीवः-अहो श्रुतिस्मृतिविहितानां कर्मणां प्रभावः । यानि मया समयेषु समनुष्ठितानि मदीयमन्तःकरणमशोधयन् । शोधिते च तस्मिन्भ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy