SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४ www.kobatirth.org काव्यमाला | निर्ज्ञातसर्वतन्त्रेषु विगूढामोघमन्त्रेषु मन्त्रिषु विन्यस्तसमस्त कार्यभारस्य तु राज्ञो निश्चिन्ततैव । परंतु तेषां व्याकृष्यन्ते दुरन्तया चिन्तया हृदयानि | सामन्ताविनमेयुरित्युपचयः कोषस्य सिच्छेदिति Acharya Shri Kailassagarsuri Gyanmandir स्थानेषु द्विषतां स्थितीरपि चराः पश्येयुराप्ता इति । स्यादायोपगमो यथेति विभवैस्तुष्टाः प्रवीरा भटा वर्तेरन्निति मा मलिम्लुचगणारुद्विजेतेति च ॥ १० ॥ अहमपि राज्ञा विन्यस्तसमस्त कार्यभारतया यत्सत्यं व्याकुल एव । तथा हि । कार्येषूक्तेषु राज्ञा कतिचिदपि मया साधितान्येव पूर्व साधिष्यन्ते परस्तात्कतिचन कतिचिच्चापि साध्यन्त एव । किंचानुक्तेषु सद्यः किमपि किल कुशाग्रीययात्मीयबुद्ध्या पर्यालोच्यैव तत्तत्समयसमुचितं कर्तुमुत्कण्ठितोऽस्मि ॥ ११ ॥ अत एव सर्वत्र तत्रतत्र व्यावृते मया पुरगुहयै मत्सदृश एव कोऽपि विनियुक्तो विचारनामा नागरिकः । तत्प्रकृतकार्ये व्यापृतव्यम् । कः कोऽत्र भोः । ( प्रविश्य 1) दौवारिकः -- विजयतां देवः । मन्त्री - भद्र, मद्वचनेनानुशासनीयाः पौरा नगरालंकाराय । आलिम्पन्तां सुधाभिः पुरसदनगता भित्तयों भृत्यवर्गे रम्भास्तम्भाः क्रियन्तां कपिशफलभृतः पार्श्वयोर्द्वारभूमेः । बध्यन्तां तोरणानि श्रितनवमणिभिर्दामभिः सन्तु रथ्याः संमृष्टाश्चाम्बुसिक्ताः प्रतिगृहमुपरि ग्रथ्यतां केतनाली ॥ १२ ॥ यतः संप्रत्येव सिद्धप्रतिज्ञो राजा समागमिष्यति । दौवारिकः - यदाज्ञापयत्यार्थः । ( इति निष्क्रान्तः ।) -- मन्त्री —— (सदृष्टिक्षेपं परिवृत्त्यावलोक्य च ।) अहो रिपूणां पुरावस्कन्दनप्रकारः । तथा हि । पाण्डुना प्रेरिता रोगाः, For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy