SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः जीवानन्दनम् । पाण्डुः-(स्वगतम् ।) वायुसंचार्यमाणं कफपित्तयोयुगं तद्भवेत् । (प्रकाशम् ।) ततस्ततः । कर्णमूलः-तस्मादन्तःपुरचारिणः पङ्गुयुग्मात्तत्संचारयतः पुरुषाच्च प्रवृत्तिरुपलब्धुं शक्येति तच्च तं चोपासर्पमहम् । स च तच्च मयि दृष्टमात्रे भद्र गच्छ परिसर्प मा कुतो देशतस्त्वमसि नन्विहागतः । कस्य वा वद परिग्रहो भवानित्यपृच्छदथ सोऽपि तच्च माम् ॥ २७ ॥ भो भो भद्रमुखाः परिग्रहतया कस्यापि नाहं स्थितो रात्रि नेतुमिहागतोऽस्मि नियतं सायानि भिक्षामटन् । स्थानं मे यदि शक्यतेऽपगतये प्रान्त(?)स्तदादीयता___मित्युक्ते तु मया तदन्तरुदभूदन्योन्यमालोचना ॥ २८ ॥ अनन्तरं च कार्यान्तरव्याप्ते च राजनि नूतनपुरुषपरिमार्गणपरे च नागरिके, भिक्षो, रात्रौ नावसरस्त्वादृशामत्र शयितुमित्युक्तवत्सु तेषु, क्क कार्ये राजा व्याप्रियते कुत एवं भिक्षुकाणामप्युपरोध इति पृष्टवानस्मि । पाण्डुः-ततस्ततः। कर्णमूलः–तेऽपि मां भद्रेत्यामन्त्र्य समकथयन् । पुण्डरीकपुरे मन्त्रिप्रेरितः परमेश्वरम् । आराद्धं गतवानराजा मनोद्वारेण तिष्ठति ॥ २९ ॥ किं च । शत्रुनिरुद्धे च पुरे परिसशङ्कया नगरगुप्त्यै । नागरिकशिक्षणमिति प्रावोचन्मां तदानीं ते ॥ ३० ॥ अत्रान्तरे विजृम्भमाणं यामिककलकलमशृणवम् । श्रुत्वा च कथंचिलब्धावकाशः खामिकार्यगौरवादागतोऽस्मि । पाण्डुः-(आकाशे लक्ष्यं बद्धा सोपहासम् ।) रे रे मन्त्रिहतक, अस्मज्जयार्थ सहजवैरिणं रसं साधयितुं किल तव प्रयत्नः । तर्हि पश्य । साधितोऽपि स किं कुर्याद्रसः पथ्यक्रमं विना । जिहाचापलमुद्भाव्य स एव ध्वंसयिष्यते ॥ ३१ ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy