SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org काव्यमाला | किं च । भक्त्या त घटयित्वा चतुरोऽपि पुमर्थास्तस्य साधयितुं किलायमपरो यत्नस्तत्रापि प्रतिविधास्यते । किं च | Acharya Shri Kailassagarsuri Gyanmandir कर्णमूल: – (सप्रश्रयम् ।) देव, युगविगमसमयसमसमुदितमार्तण्डमण्डलस्येवाखण्डितप्रतापस्य तवापि कियान्स रसः शोषण इव तस्य (?) तव किं महिमातिशयः । तथाहि । दृष्ट्वा वैरिचमूसमूहमवशादुद्वेलमुज्जृम्भितक्रोधात्संगररङ्गसीमनि भवत्यद्धा निबद्धादरे । जीवः कः क्व च तस्य मन्त्रिहतको विज्ञानशर्मा पुनदृश्येरन्क तृणाग्नितुल्यमहसस्तस्याल्पसारा रसाः ॥ ३२ ॥ पाण्डुः– आः, अस्त्वेतत् । भद्र, कथय कीदृशी प्रकृतीनां प्रवृत्तिः । के स्वामिनि दृढभक्ता के प्रबलाः के च दुर्बला नगरे | अरिमित्रोदासीनाः के पुनरङ्ग त्वया दृष्टाः || ३३ ॥ कर्णमूलः – कथयामि देव, श्रूयताम् । तत्र प्रकृतयस्तिस्रो वातपित्तकफात्मकाः । तत्र यः प्रबलो वातः स तु स्नेहैर्वशीकृतः ॥ ३४ ॥ पाण्डुःकर्णमूल: तदनुगतं यत्पित्तं मधुरमयैस्तद्विजेयमुपचारैः । पङ्गुर्यस्तत्र कफस्तीक्ष्णोपायैर्वशं स चानीतः ॥ ३९ ॥ -अथ कीदृशो मनसो वृत्तान्तः । उद्दामबुद्धिविभवेन मनस्तु तत्र विज्ञानशर्मसचिवेन वशीकृतं सत् । कार्ये महत्यधिकृतं हितकारिराज्ञः सर्वात्मनाप्यनुसरत्यधुना तमेव ॥ ३६ ॥ पाण्डुः - अथ विज्ञानशर्मस्पार्धिनो ज्ञानशर्ममन्त्रिणः कीदृशः प्रकारः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy