________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
काव्यमाला।
समुद्यन्निःश्वासप्रसरपरिशुष्काधरपुटो
विलवयाहं दीघी सरणिमगमं पाण्डुसविधम् ॥ २५ ॥ (पाण्डं दृष्ट्वा ।) कुमार, विजयी भव ।
पाण्डुः-भद्र, किम् । किंचिदुपलब्धं तत्र भवता प्रविष्टेन । कर्णमूल:-किं सफलो न भविष्यति कुमारनियोगो विशेषोपलम्भेन । पाण्डुः कथय । कर्णमूलः–श्रूयताम् । उपरुद्धमस्मत्सैनिकैः पुरम् । पाण्डुः-किमेतत्परिज्ञानाय प्रेषितोऽसि । विदितं खल्विदं सर्वेषाम् । कर्णमूल:-(सर्वतो विलोक्य ।) एतदेव प्रस्तोतुमयमवसरः । पाण्डुः-विस्रब्धं कथय । किं न जानासि अस्मच्छरीराण्येव कीलते।
कर्णमूल:-देव, भवदाज्ञया प्रविष्टोऽस्मि पुण्डरीकपुरम् । तत्राद्राक्षं च सन्निरीक्षणैकपरे ईक्षणे । निगमार्थश्रवणप्रसिते श्रवसी । शिवनिर्माल्यगन्धसंतर्पितं घ्राणम् । विघसामृतास्वादनैकतानां रसनाम् । त्रेताभस्मावगुण्ठितां त्वचम् । धर्मार्थसंग्रहीतारौ करौ । तदर्थ कृतसंचरणौ चरणौ । चिरंतनसरस्वतीचिकुरपरिमलामोदसदनं वदनं च । तद्दर्शनेन क्वचिदपि स्थलमलभमानः स्थातुमपि नाशक्नुवम्, किं पुनर्देवस्याज्ञां परिपालयितुम् ।
कुष्ठः-(विहस्य ।) अनासारवर्षणमजागलस्तनसमवस्थं तव गमनागमनं च । संनिपातः-कुष्ठ, सावशेषमिव तव वचनम् । कुष्ठः-स्वामिपोषितस्वकलेवरनिरर्थकता च ।
कर्णमूल:--जाग्रति मच्छिरसि महाराजपादपङ्कजरेणौ कथमेतद्भविष्यति ।
पाण्डुः-ततस्ततः। कर्णमूलः-ततश्च । तस्मिन्पुरे स्थानमहं विवेक्तुं चरन्समन्तात्क्वचिदप्यपश्यम् । त्रिष्वाशयेषु स्थितिमत्स्वशकं संचारितं केन च पङ्गुन्युग्मम् ॥ २६ ॥
For Private and Personal Use Only