SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः) जीवानन्दनम् । पाण्डुः -(सबहुमानम्।) अतिसारा इति स्पष्टं विष्टपत्रयविश्रुतम् । युष्मन्नामैव युष्माकं ब्रूतेऽतिशयितं बलम् ॥ २२ ॥ गुल्मप्लीहानः-श्रूयतां स्वामिना । अस्मासु प्रविशत्सु शात्रवपुरं पीडाकरेषु द्रुतं । कार्याकार्यविवेक एव न भवेदल्पोऽपि तस्मिन्क्षणे । आस्तामेतदिदं वचो निशमय क्षन्तुं व्यथामक्षमो ___ विज्ञानेन च मन्त्रिणा सह पुराजीवः पलायिष्यते ॥ २३ ॥ पाण्डुः--अस्मत्सैनिकोपरुद्धे पुरे पिपीलिकापि न प्रसरीसरीति, कुतः पुनरियं तस्य पलायनशङ्का । परंतु सर्वैरिदमाकर्णनीयम् । नीतिशास्त्रानुसारिणि मन्त्रिणि तदनुरक्ते विक्रमाभिमानरक्षणैकपरे द्विजदेवपोषणैकतानमानसे राजनि तस्मिन्निपुणं किमपि प्रतिविधानमनुसंधेयम् । अतः प्रागेवातर्कयं किंचिदत्याहितहेतुस्तदीयान्तर्मुखतेति । कुष्ठेष्वेकः-(स्वगतम् ।) प्रागस्माभिः प्रेषितः शत्रुशिबिरं प्रविष्टः कर्णमूलोऽद्यापि नागतः किं तैर्गृहीतः स्यात् । (ततः प्रविशत्यध्वश्रान्तः कर्णमूलः ।) कर्णमूल:-(दृष्ट्वा ।) एतत्खलु तत्तत्कार्यनिवेदनार्थमिलितान्योन्यानभिज्ञस्पैश प्राप्तव्यावसरप्रतीक्षणकृतद्वा पार्श्ववेद्यासिकम् । अन्तर्मन्दिरनिःसरज्जनवचोविज्ञाप्यमानप्रभु व्यापारश्रवणेप्सुबाह्यमनुजं पश्यामि पाण्डोर्गृहम् ॥ २४ ॥ (द्वाःत्यं प्रति ।) गलगण्ड, कथय कर्णमूलं संप्राप्तं माम् । (गलगण्डः प्रविश्य निष्क्रम्य कर्णमूलेन सहान्तः प्रविशति ।) कर्णमूल:-(आत्मानं दृष्ट्वा स्वगतम् ।) श्रमाम्भःसंसिक्तालिकललितपुण्ड्राङ्कवदनो द्रवच्चर्मोपानद्दढपिहितपार्वाञ्चलपटः । १. स्पशश्चरः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy