SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः] जीवानन्दनम् । २३ (गलगण्डं प्रति ।) स्वामिनः कुमारस्य संनिधि प्रापय सर्वानपि सैनिकान् । गलगण्डः-तथा । (इति निष्क्रम्य सर्वैः सह प्रविशति ।) (सर्वे पाण्डुं प्रणम्य प्राञ्जलयस्तिष्ठन्ति ।) पाण्डुः--एवं प्रवृत्ते राजकार्ये किं भवन्तो मन्यन्ते । तत्रादौ कुष्टाः कार्या न चेतसि कुमार कदापि चिन्ता स्थास्यन्ति के वद पुरः प्रतिगर्जतां नः । शत्रोः प्रविश्य पुरमीक्षितुमप्ययोग्य कुर्मो वयं तनुभृतामतिकुत्सनीयम् ॥ १४ ॥ उन्मादा:-सर्वे सैनिकास्तिष्ठन्तु । ज्ञायतामस्माकमभिप्रायः । कोपाध्मातककुत्स्थपुंगवकरव्याकृष्टगर्जद्धनु ानिर्गत्वरमार्गणानलशिखादीने नंदीने भृशम् । पाठीनान्कमठैः समं विलुठतः सर्वेऽनुकुर्वन्तु ते शार्दूला इव शम्बरान्सरभसं यानद्य गृह्णीमहे ॥ १५ ॥ वणा:--स्वामिन्कुमार, प्रथम पुरमेव वाधितव्यम् । तद्वाधया शिथिलीभविष्यत्यन्तर्मुखतापि जीवस्य । अत इदानीम् प्रचण्डमदपाण्डवहितकाण्डवर्गत्रुट त्तराकरिकेसरिप्रियकशल्यशार्दूलकम् । अरण्यमिव खाण्डवं धनसरण्यतीत द्रुम व दहनहेतयः पुरमरेर्दहामो वयम् ॥ १६ ॥ सर्वेऽपि अर्शीभेदा:--स्वामिन् , यदुक्तं व्रणैस्तदस्मभ्यमपि रोचते। तेन वयं च निरुद्धमूलद्वाराः । गृह्णीयाम व्यथयितुमरेस्तत्पुरं येन सर्वे व्याघ्राकृष्टा इव हि पशवः प्राणिनोऽस्मद्गृहीताः । १. समुद्र. २. मृगभंदान. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy