________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ अङ्कः ]
जीवानन्दनम् ।
इत्थं श्वासविलासिनीरुपगताः पञ्चापि हिक्काः सुखी
कृत्य द्रागुपसान्त्व्य पाण्डुदयिता मां प्राहिणोत्कामला ॥ ७ ॥ तत्थ वि मन्दभाइणी अहं हदमणोरहा जादेत्ति । (क)
कासः - ( विचिन्त्य |) मा बिभेहि । ज्ञातस्तव भावः । त्वयि प्रणयस्य भङ्गे कण्ठकण्ड्डा यत्नः क्रियत इति गच्छामि तत्रैव तानपि वशीकुर्याम् । dsपि मयैव पुष्टाः कथं मह्यं दुह्येयुः ।
छर्दिः - गच्छेहि कज्जसिद्धीए अहं वि देईए सकासं गमिस्सम् । ( इति निष्क्रान्ती ।) प्रवेशकः ।
(ततः प्रविशति रहस्यागारस्थः सुप्तोत्थितः सचिन्तः पाण्डुः 1) पाण्डुः - कः कोऽत्र भोः ।
(प्रविश्य)
दौवारिकः - विजयतां देवः ।
।
अपि च ।
Acharya Shri Kailassagarsuri Gyanmandir
( पाण्डुर्निद्रालसो जृम्भते ।)
दौवारिकः - ( आत्मगतम् । ) एष किल आरक्तसंकुचदपाङ्गमुदग्रदंष्ट्रं
व्यादाय वक्रमुरुपाटलदीर्घजिह्वम् । उच्चैर्भुजौ वलयितौ ग्रथिताङ्गुलीको कुर्वन्सशब्दमिह जृम्भणमातनोति ॥ ८ ॥
जृम्भावसरे दारुणमाननविम्बं सजिद्दमेतस्य । निपतितदीर्घकपाटं पातालद्वारमिव हि पश्यामि ॥ ९ ॥
२१
(प्रकाशम् 1) देवस्य कीदृशो मयि नियोगः |
पाण्डु : – गलगण्ड, सेनापतीनाहूय मम निकटं प्रवेशय । (गलगण्डो निष्क्रम्य त्रयोदशप्रकारान्संनिपातान्प्रवेशयति । सर्वे प्रविश्य प्राञ्जलय
स्तिष्ठन्ति ।)
(क) तत्रापि मन्दभागिन्यहं हतमनोरथा जाता ।
For Private and Personal Use Only