SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः] जीवानन्दनम् । द्वितीयोऽङ्कः । (ततः प्रविशति चेट: कासः ।) कास:-अहं खलु स्वमन्त्रिहतकोपदिष्टं किमपि रहस्यं शृण्वञ्जीवो नाम प्रतिराजा स्वस्मिन्किमपि चेष्टितुमन्तर्मुखस्तिष्ठतीति चारमुखादवगतवता संभ्रान्तेन महाराजेन यक्ष्मणा किमयं वृत्तान्तः श्रुतस्त्वया न वेति युवराज पाण्डं पृष्ट्वागच्छेति प्रेषितोऽस्मि । अतस्त्वरन्नितो युवराजसमीपं गच्छामि । अहो महाराजस्य युवराजे महती प्रीतिः । यतः । यद्यज्ज्ञातं स्वयं तत्तद्युवराजोऽपि वेत्ति चेत् । तदा राज्याधिकारेऽस्य शक्तिः स्यादिति मन्यते ॥ १ ॥ (पार्श्वतो विलोक्य ।) कथमियं छदिः । यैषा प्रवालमृदुलाधरप्रकरचारुबिम्बप्रभा हृताहृतविलोचनाञ्जनविशेषदृश्यानना । मयूरपदकस्फुरत्कठिनतुङ्गपीनस्तनी नरङ्गयति कौतुकं तरुणिमश्रिया चेतसि ॥ २ ॥ (स्मरणमभिनीय।) श्लथजलधरजालश्लिष्टशीतांशुबिम्बा नभिनवमुकुराविर्भूतमुक्ताकदम्बान् । दरतरलितचक्रद्वन्द्वखेलन्मृणाला विवशहृदयमस्या विभ्रमानन्वभूवम् ॥ ३ ॥ (सभयम् ।) तदियं मामवलोकयति चेदिदानी विभ्रममूल्यमनुपयुज्य मां निरुन्धीत ततो गमनविघ्नः स्यात् । (इत्युत्तरीयपटेन मस्तकमवगुण्ठयन्नन्यतो गच्छति ।) (प्रविश्य) छर्दिः--अए सठ, त्तिम्मि मुत्ताफलं परिपणीकदुअ पुरुसाइदं मए कारविअ दाणि मं पेक्विअ ओगुण्ठितसीसो बद्धकटी कुदो पलाएसि । (क) (इति कासं हस्ते गृह्णाति ।) (क) अये शट, रती मुक्ताफलं परिपणीकय पुरुषायितं मया कारयित्वा इदानी मां प्रेक्ष्यावण्ठितशीर्षो बद्धकटिः कुतः पलायस । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy