SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मन्त्री-पुण्डरीकपुरं प्रविश्य । देवी-कहं तत्थ पवेसो । (क) मन्त्री -देवि, शक्यं तत्खलु पुण्डरीकनगरं गन्तुं मनोद्वारत स्तत्रास्ते शिवभक्तिरित्यनुपमा कापि प्रमोदास्पदम् । दृष्ट्वा तां प्रथमं तथा परिचयस्तस्या विधेयम्त्वया चत्वारोऽपि भवन्ति ते करतलं प्राप्ताः पुमर्था यथा ॥ ४७ ॥ राजा—(सोत्कण्ठम् ।) तामद्वैतां स्वरूपेण भक्ति हृदयरञ्जिनीम् ।। __ स्वीकृत्याहं भविष्यामि प्राप्ताखिलमनोरथः ॥ ४८ ॥ देवी-(सासूयमिव स्वगतम् ।) कहं सव्वपुरुसत्थप्पसवित्तिआ सेत्ति सुणिअ सुदघणाघणगज्जिदो मोरो विअ उक्कण्ठिदो अजउत्तो । होदु । ता मए वि सह गन्तव्वम् । (प्रकाशम् ।) अजउत्त, अहं वि आगमिम्सम् । (ख) राजा-(स्वगतम् ।) कथमनयाप्यागन्तव्यम् । (विचिन्त्य ।) भवतु । (प्रकाशम् ।) अयि भद्रे, भक्तिपराधीनं साम्बमुपास्यावामभिलषितमर्थ साधयावः । (मन्त्रिणं प्रति ।) राज्यं त्वयि समारोप्य योग्ये सर्वाङ्गसंहितम् । देव्या सह शिवं साम्बमुपास्तुं यामि तत्पुरम् ॥ ४९ ॥ मत्री-यथा रोचते देवस्य । (इति निष्कान्ता: मवें ।) इति प्रथमोऽङ्कः । (क) कथं तत्र प्रवेशः । (ख) कथं सर्वपुरुषार्थप्रसवित्रिका सेति श्रुत्वा श्रुतघनाघनगर्जितो मयूर इवोत्कण्ठित आर्यपुत्रः । भवतु । तन्मयापि सह गन्तव्यम् । आर्यपुत्र, अहमप्यागमिष्यामि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy