SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १ अङ्कः] Acharya Shri Kailassagarsuri Gyanmandir जीवानन्दनम् । भक्तिप्रहमहेन्द्र मुख्यमखभुक्प्रारब्धभूरिस्तवप्रादुर्भावितनिर्भरप्रमदया कारुण्यभाजा यया । निद्राभङ्गमवापितेन हरिणा दीप्तौजसा घातयामासाते मधुकैटभावतिबलौ सा केन वा वर्ण्यते ॥ ४३ ॥ मन्त्री- - राजन्, तथ्यमेवाह भवान् । अस्याः किल भक्तवात्सल्यमनन्यतुल्यं पश्यामि । दूरोद्धृतविपाणकोटिवटना चूर्णीकृताम्भोधरं प्रेङ्खत्पादचतुष्टयखुरपुटप्रक्षुण्णपृथ्वीतलम् । कल्पान्ताभ्रकठोरकण्ठनिनदत्रस्तत्रिलोकीजनं विक्रान्तं महिषासुरं युधि पुरा चिच्छेद शूलेन या ॥ ४४ ॥ देवी-साखु परमेसरी बहुविहदेव आसत्तिरूआवअवा पअण्डपरक्कम - खण्डि अचण्डमुण्डधुम्मलोअणरत्तबीजप्पहुदिदाणवमण्डला सुणीअदि चडिआणा मधेत्ति | (क) राजा -- तदपि ज्ञायते । यथा खलु । शस्त्रच्छिन्नसुरारिसैन्यपिशितग्रासग्रहप्रीतिमत्कङ्ककोष्टरि संगरे सुरवधूमुक्तप्रसूने स्थितम् । देव्या शुम्भनिशुम्भदानववधप्रक्लिन्नचित्तस्तुवदुद्रेन्द्राग्निकृतान्तनैर्ऋतजलाधीशानिलश्रीदया ॥ ४५ ॥ १५ मन्त्री - राजन्, एवं भक्तवत्सलयोरनादिदंपत्योरुपासनया संपादनीया सिद्धिः । किं च । सामर्थ्यसिद्ध्यै रसगन्धकानां संयोजनार्थं सकलौपधीश्च । संपादयामोऽथ तदाश्रितस्य सर्वोपधीशस्य विधोः प्रसादात् ॥ ४६ ॥ देवी - कदमं उण देतं पविसिअ उवासणिज्जा ए दे । (ख) (क) सा खलु परमेश्वरी बहुविधदेवताशक्तिरूपावयवा प्रचण्डपराक्रमखण्डितचण्डमुण्डधूम्रलोचन रक्तबीजप्रभृतिदानव मण्डला श्रूयते चण्डिकानामधेयेति । (ख) कतमं पुनर्देशं प्रविश्योपासनीयावेतौ । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy