SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मार्कण्डेयं व्यतनुत यदा सर्वभूतैस्तदादि स्तुत्यं मृत्युंजय इति यशः स्फारमीशः प्रपेदे ॥ ४० ॥ राजा-पुरा खलु देवदानवैरमृतार्थिभिर्महोरगयोक्रपरिवेष्टितविकृष्यमाणमन्दरमन्थानदण्डैर्मथ्यमाने दुग्धसागरे गरलमुद्भटमुत्थितमसहमानेषु भुवनेषु विनष्टप्रायेषु पलायनाभिमुखे चतुर्मुखे विगलितौजसि बिडौजसि भगवानेवैष विषमनन् जगदनुचकम्पे । तथाहि । मेघाक्रान्तदिगन्तदर्शरजनीमूर्छत्तमोमेचकं तापद्रावितदेवदानवनरं यः कालकूटं गरम् । जग्ध्वा जम्ब्विव बालकस्त्रिभुवनत्राणं ततानाञ्जसा तस्य द्राङ्महिमा न वाङ्मनसयोः पन्थानमारोहति ॥ ११ ॥ मत्री-किमुच्यते महिमेति । श्रूयतां तावत् । त्रिपुरविजयप्रसक्तावसक्त इव स्वयं तदर्थ कतिचित्साधनानि संपाद्य तान्यपि वितथीकृत्य स भगवान्निजमेव महिमानमभिव्यक्तवान् । तथाहि । सूर्याचन्द्रमसौ रथाङ्गयुगलं सूतो विधाता स्वयं __ रथ्याश्वा निगमाश्च यस्य रथमारूढेन भूमीमयम् । मेरुं धन्वविषक्तवासुकिगुणं कृत्वा शरं चाच्युतं तितस्तेन पुरः स्मितेन तु परं दग्धाः सुरद्वेषिणाम् ॥ ४२ ॥ राजा-एवमपरिमितान्याश्चर्यचरितानि देवस्य । देवी-किं अच्चरिअं । महेसरम्स जह जह जारिसो उपासनं करेदि तह तह तारिसं सो तं तं फलं पावेदि । (क) मत्री-एवमेतत् । राजा-एवमनिर्धारणीयनानास्वरूपा भगवतीपरमेतत् । परंतु भगवतो दयारूपैवेयम् । अत एव लोकरक्षणार्थी प्रवृत्तिरेतस्याः । श्रूयतां तावत् । (क) किमाश्चर्यम् । महेश्वरस्य यथा यथा यादृश उपासनं करोति तथा तथा तादृशं स तं तं फलं प्राप्नोति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy