________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
१ अङ्कः
जीवानन्दनम् । धवलमुपरि भर्तुश्चामरं धूयमानं
विरमयति करेण व्यक्तमाकर्णनाय ॥ ३८ ॥ (प्रकाशम् ।) श्रोतव्यमिदं धारणावचनम् । यक्ष्महतकः पुरान्निष्क्रामणमेवास्माकमिच्छतीति ।
राजा-किमत्र प्रतिविधातव्यम् । देवी-(सोद्वैगम् ।) दाणिं किं कुम्भो । (क) मन्त्री-देवि, मा भैषीः । प्रतिविधानप्रकारोऽपि धारणया विदितः । राजा-कथमिव । मन्त्री--(कर्णे) एवमेवम् । राजा-कथमिदं धारणया निर्धारितम् ।
मत्री--रसगन्धकप्रयोगमन्तरेण सपरिवारोऽहमजय इति यक्ष्मराजस्य हृदयं विश्वसनीयया तापसीवेषया धारणया गृहीतम् ।
देवी-(साश्वासम् ।) जइ एव्वं ता कहं अह्मेहिं रसगन्धआ संपादणिज्जेत्ति । (ख) राजा
शंभोर्वीय रसो नाम शर्वाण्या नाम गन्धकः ।। __ताभ्यामेव प्रसन्नाभ्यां तो ग्राह्याविति मे मतिः ॥ ३९ ॥ देवी–केण उण उवाएण ताणं पसादो संपादणिज्जो । (ग) मत्री-उपासनयैव ।
राजा-युक्तमुक्तं भवता । श्रूयते हि पुरा मृकण्डरुमापतिमुपास्य पुत्रं लेभे । तत्पुत्रोऽपि तदुपासनया मृत्युमुखान्मुक्तो दीर्घमायुरलभतेति । मत्री-सम्यगवगतं महाराजेन । यतः खल्वेष पादाघातत्रुटितयमुनाभ्रान्तबावन्तरोद्य
द्रक्तस्रोतः समुपशमिताशेषशोकाश्रयाशम् । (क) इदानी किं कुर्मः । (ख) यद्येवं तत्कथमस्माकं रसगन्धको संपादनीयौ इति । (ग) केन पुनरुपायेन तयोः प्रसादः संपादनीयः ।
For Private and Personal Use Only