________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
काव्यमाला।
वादित्रध्वनिमण्डलीकृतगरुद्वहीं नटत्यङ्गणे देव त्वं विजयीभवेति गुणयन्नास्ते शुकः पञ्जरे ॥ ३५ ॥
(प्रविश्य ।) दौवारिका-(मन्त्रिणं प्रति ।) स्वामिन् , भवन्तं द्रष्टुं बुद्ध्या सह देव्या भद्रासनमधिवसति राजा। मन्त्री
अतिपरिचयेऽपि राज्ञो विभेमि सहसोपगन्तुमभ्यर्णम् ।
येनाग्नेरिव तेजः स्फुरदस्यारान्निवर्तयति ॥ ३६ ॥ (विचिन्त्य ।) परपक्षं प्रति प्रतिविचारणाय प्रेपितां धारणां प्रतीक्षमाण इव लक्ष्यते । भवतु तदेतदहं वक्ष्यामि ।
(ततः प्रविशति बुद्ध्या देव्या सह राजा जीवः ।) मन्त्री--(उपसृत्य ।) विजयतां महाराजः । राजा--इतो निषीदतु भवान् । (इति मन्त्रिणे आसनं निर्दिशति ।) मन्त्री-(आसने उपविश्य स्वगतम् ।) एप खलु गण्डूषोदकशोधितेऽपि वदने ताम्बूलरक्ताधरः
स्नानापोहितचन्दनेऽपि वपुपि प्रोद्दामतत्सौरभः । निर्णिक्ते सिचये धृतेऽपि कनकाकल्पेन पीताम्बरः
सोऽयं सत्यपि न प्रमाद्यति सदाचारादतिप्राभवे ॥ ३७ ॥ (प्रकाशम् ।) महाराजेन प्रहिताया धारणाया मुखात्तत्रत्यः सर्ववृत्तान्तो विदित एव । सा पुनर्दुर्जनसंसर्गदोषपरिहाराय नदी स्नातुं गता । तया च मयि संक्रमितस्तत्रत्यवृत्तान्तः ।
राजा-(सोत्कण्ठम् ।) कथमिव । देवी--अहं वि अवहिदमि । (क) मन्त्री-(स्वगतम् ।) इयं हि देवी किमपि नियमिताप्रैः कुन्तलैः स्निग्धनीलैः
परिलसदपराङ्गा धारयन्ती दुकूलम् । (क) अहमप्यवहितास्मि ।
For Private and Personal Use Only