________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
काव्यमाला।
कास:-मुञ्च मुञ्च । (इति हस्तं धुनोति ।।
छर्दिः-(दृढं हस्तमवलम्ब्य ।) हदास, मह पडिण्णादं दाऊण गच्छेहि । (क)
कास:--हजे, यावदागत्य दास्यामि । छर्दिः-कुदो आगमिअ । (ख) कास:-धिमूर्ख, नायमवसरः । पश्चात्कथयिप्यामि । छर्दिः-जड़ दाणिं ण कहेसि अहं वि ण मुञ्चमि । (ग) कासः--तर्हि गृहाण मुक्ताफलस्य प्रतिनिधिमिमामूमिकाम् । (इत्यङ्गलीयकं विमुच्य प्रयच्छति ।)
छर्दिः----इदं होदु । कुदो आगमिअ त्ति कहेहि । (घ) कास:-किं मम वधमिच्छसि । यतः ।
कार्य राज्ञां मन्त्रिभिर्मन्त्रितं यत्सर्वेषां तत्सर्वथा गोपनीयम् ।
येऽभिव्यञ्जन्त्येतदुद्यत्प्रमादाः शीर्षच्छेद्यास्तन्वते तान्नरेन्द्राः॥४॥ छर्दिः-जह तह होदु । एवं दाव कहेहि । (ङ)
कासः--(स्वगतम् ।) अहो दास्याः स्नेहपरिपाकः । यः परमनाय संपद्यते । तथा हि ।
स्त्रियः स्वार्थपराः प्रायः परदुःखं न जानते ।
अप्रष्टव्यं यदप्राक्षीद्हिणी कैकयाधिपम् ॥ ५ ॥ (प्रकाशम् ।) राजकोलीनमेतदिति न कथयामि । मुञ्च । (इति त्वरयति ।)
छदिं:-मा भयाहि तुमं । जं मञ्जसा क्खु अहं राजकजाणं । अदो ण पआसेमि । (च)
....... - - -- -- .............(क) हताश, मम प्रतिज्ञातं दत्त्वा गच्छ । (ख) कुत आगत्य । (ग) यदीदानी न कथयसि अहमपि न मुञ्चामि । (घ) इदं भवतु । कुत आगत्येति कथय । (ङ) यथा तथा भवतु । इदं तावत्कथय ।
(च) मा बिभेहि त्वम् । यन्मनपा खल्वहं राजकार्याणाम् । अतो न प्रकाशयामि ।
For Private and Personal Use Only