________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
जीवानन्दनम् ।
धारणा--(स्वगतम् ।) एसो अत्तकेरअस्स पहुणो अमच्चो । ता पहुजअविषअणीए मन्तविचारसिद्धीए परपक्खवलट्ठिदि एदस्स जेव्व कहइम्सम् ।(क) (प्रकाशम् ।) सर्वरोगराजो यक्ष्मा निष्प्रतीकार इति सर्वजनविदितमेतत् । शृणु तावत् । परीवारा एतस्य रोगविशेषा भीमरूपा बहवः । तथाहि ।
ज्वरपाण्डुप्रमेहार्शः शूलगुल्मभगंदराः ।
कासश्वासावतीसारसंनिपाताश्मरीत्रणाः ॥ २६ ॥ कि च।
रोगा मूनि शतं चतुर्नवतिरेवाक्ष्णोस्तथा नासिका
प्रत्याष्टादश कर्णयोरपि तथा बके चतुःसप्ततिः । पञ्चैवं हृदि किं च सन्ति बहवः सर्वेऽप्यमी दुस्तराः
प्राप्तौ कल्ककपायलेावटकप्रायौषधानामपि ॥ २७ ॥ तस्मादुर्जयो युप्माभिः ।
मन्त्री--(स्वगतम् ।) इयं किल भीत्या निसर्गकातरा प्रबलपरबलप्रवेशहृदया मदीयप्रभावमजानती स्वबुध्यनुरूपं किमपि प्रलपति । भवतु । किमनया वृथा संवादकदर्थनया । प्रस्तुतकार्यसाधनार्थमिमां तावदन्तरयामि । (प्रकाशं सोपहासम् ।)
आलोक्य शात्रवबलं बहुधारणे त्वं
भीतासि संप्रति रसं प्रतिपन्नधैर्या । जीवस्य जीवितसमे मयि सत्यमात्ये
भूयात्कथं बत विरोधिशिरोधिरोहः ॥ २८ ॥ धारणा-(विहस्य ।) कधं जाणिदह्मि अमच्चेण । ता कहेमि विस्सद्धं जहत्थं सुणादु अमच्चो । अहं खु देईए बुद्धीए सहअरी रण्णा जीवेण तावसीवेसं करिअ रत्तिम्मि पुरं पविसिअ जक्खराअस्स विआरणीओ व
(क) एप आत्मीयस्य प्रभोरमात्यः । तत्प्रभुजनविषयिण्या मन्त्रविचारसिद्धेः परपक्षबलस्थितिमेतस्यैव कथयिष्यामि ।
For Private and Personal Use Only