________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
धारणा-(ध्यानाद्विरम्य सस्मितम् ।) जीवस्य राज्ञो मन्त्री विज्ञानशर्मा भवान् ।
मत्री-महाप्रभावा योगसिद्धिमती भवती । तथाहि । बुद्ध्या महत्या कृतसाहचर्या देवे निजे दर्शितभूरिभक्तिः । परप्रवृत्ति विदती महिम्ना साधारणा त्वं त्वहिते हिते च ॥ २४ ॥
धारणा-(स्वगतम् ।) किं जाणिदं म्हि अमच्चेण जहत्थणामधेएण नं तावसीवण्णणव्वाजेण अहं जेव्व वण्णिदा। होदु । एव्वं भणामि । (प्रकाशम् ।) महान्खलु योगप्रभावः । (क) ___ मत्री-भगवति, तव न किंचित्प्राणिनामन्तर्गतमविदितमस्ति । अतस्त्वां प्रार्थये । कथमस्माकं राजनि यक्ष्मा मन्यते । योगिन्यास्तव दुःखितेषु कथमेषां दुःखविमुक्तिः स्यादिति चित्तपरिकर्मविशेषः करुणा भवत्येव । योगाङ्गेषु यमेषु वाङ्मनसयोर्यथार्थत्वरूपः सत्यं नाम द्वितीयो यमोऽपि तथा । अत इदं निर्विशङ्क प्रार्थनापूर्व पृष्टासि ।
धारणा—(स्वगतम् ।) जक्खराजपक्खवादविसेसे वि जोइणीए पुच्छिदस्स जहत्थुत्तरं अभणिअ असकं टार्दु त्ति मण्णइ अमच्चो । (प्रकाशम् ।) किमन्यत् । पुरान्निष्क्रमयितव्योऽयमिति मन्यते । (ख) ___ मत्री-कथमेतदेतस्य संघटते सामादिषु चतुषूपायेप्वेकैकस्यापि प्रयोगेण सुसाधो हि रिपुमनोरथमङ्गः । धारणा--नन्विमं दुप्करं पश्यामि ।
यक्ष्मणि विभौ प्रयोगं घटयन्ति न सामभेददानानि ।
दण्डः प्रभवेन्नु कथं प्रबलतरे रिपुजने स्वस्मात् ॥ २५ ॥ मत्री-यथार्थमाह भवती । किं त्विदं पक्षपातवचनम् । केनेममस्मत्प्रबलतरं मन्यसे ।
(क) किं ज्ञातास्म्यमात्येन यथार्थनामधेयेन यत्तापसीवर्णनव्याजेनाह' मेव वर्णिता । भवतु । एवं भणामि ।
(ख) यक्ष्मराजपक्षपातविशेषेऽपि योगिन्या पृष्टस्य यथार्थोत्तरमभणित्वा न शक्यं स्थातुमिति मन्यतेऽमात्यः ।
For Private and Personal Use Only