________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः ]
जीवानन्दनम् ।
भाषया वेषानुगुणमपलपते प्रतिपक्षकुले च पक्षपातमात्मनः सूचयति । भ वतुं । अहमप्यजानन्निवानुनयन्पृच्छाम्येनाम् । (प्रकाशम् ।) अये तापसि, निखिलं जगतश्चरितं विज्ञातं ते समाधिनैव भवेत् । तन्मे महाप्रभावा भाग्येनासादिता भवती ॥ २२ ॥
धारणा - (स्वगतम् ।) मं तावसिं एव्व जाणिअ मह मुहादो पच्चत्थि - अप्पत्ति सुणि अणुणअप्पआरो एसो । होदु । अहं वि अजाणन्तीव पुच्छामि । (प्रकाशम् ।) कस्त्वम् । क्व गच्छसि । सूनृतेन ते वचनेन साधुर्भवानिति पृच्छामि । (क)
6.
मन्त्री - (स्वगतम् 1) इयमात्मानं गोपयति । अहमपि तथैवोत्तरयामि । (प्रकाशम् ।) कार्यविशेषेऽधिकृतं जानीहि येनैवमधिकृतस्तन्निकटे गच्छामि । धारणा - (स्वगतम् ।) एसा विपक्खजणपक्खवादिणित्ति गोपणप्पआरो एसो । ( प्रकाशम् ) केनाधिकृतोऽसि । (ख)
मन्त्री - भगवति, त्वमेव जानासि । यतः प्रणिधानेन योगिनः सकलमपि प्रत्यक्षयन्ति ।
धारणा - (स्वगतम् 1) कहं एदं आपडिदम् । होदु । जोइणो विअ आसिअं करिअ अमचं वञ्चमि । ( इति ध्यानारूढा तिष्ठति ।) (ग) मन्त्री - (स्वगतम् ) एषा खलु
कृत्वा स्वस्तिकमासनं करयुगं विन्यस्य जानुद्वये नासाग्रार्पिततारका नतमृजूकृत्यावलग्नं दृढम् ।
निःश्वासोच्छुसितोपरोधघटितस्तैमित्यपीनस्तनी
चित्ते मे कृतसंयमेव कुरुते धूर्ता महत्कौतुकम् ॥ २३॥ (प्रकाशम् ।) परिनिष्ठितं योगाभासनं भवत्याः ।
( क ) मां तापसीमेव ज्ञात्वा मम मुखात्प्रत्यर्थिराजप्रवृत्तिं श्रोतुमनुनयप्रकार एषः । भवतु | अहमप्यजानतीव पृच्छामि ।
(ख) एपा विपक्षजनपक्षपतिनीति गोपनप्रकार एषः ।
(ग) कथमेतदापतितम् । भवतु । योगिन इवासिकां कृत्वा अमात्यं वञ्चयामि ।
For Private and Personal Use Only