________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(ततः प्रविशति तापसीवेषा धारणा ।) धारणा-अहं खु पञ्चत्थिराआभिसेणणसंणाहं कस्स वि पुरिसस्स मुहादो सुदवन्तेण रण्णा 'इमं उत्तन्तं पुरं पविसिअ जाणीहि' त्ति पेसिदह्मि । मए वि तावसीवेसाए तह जाणिअ रण्णो समीवे समागमीअदि । (अग्रतो दत्तदृष्टिः स्वगतम् ।) एसो विण्णाणसम्मा अमच्चो आअच्छदि।होदु । वेसेण पदारेमि णम् । जज्जवि सव्वस्सि वि कज्जे इमम्स अणुमदि विणा राआ ण पवट्टइ तह वि जं मह संसओ वट्टइ ता एअकस्स पआसो ण भवे । (इति परिक्रामति ।) (क) ___ मत्री—(दृष्ट्वा स्वगतम् ।) इयं तापसी राजप्रहिता प्रच्छन्ना किं धारणा भवेत् । भवतु । पृच्छामि । (प्रकाशम् ।) अये तापसि, का त्वम् । कुत आगच्छसि।
धारणा-(स्वगतम् ।) इमस्स पडिवअणं भासन्तरेण भणेमि । अbणहा कहं वि जाणिस्सदि इअं सेति । (प्रकाशम् ।) अहं खलु गार्गी यक्ष्मणो राज्ञो वयस्या देव्या गृहिण्याः स्नेहसर्वस्वभाजनं तदन्तःपुरादेवागच्छामि । (ख)
मत्री-(स्वगतम् ।) भवेदेवेयं धारणा तापसीवेषेण रिपुप्रवृत्तिमुपलभ्यागतवती । अयं स्वनामानुगुणमभिज्ञो वा न वेति मां परीक्षितुं संस्कृत
(क) अहं खलु प्रत्यर्थिराजाभिषेणनसंनाहं कस्यापि पुरुपस्य मुखाच्छतवता राज्ञा 'इमं वृत्तान्तं पुरं प्रविश्य जानीहि' इति प्रेषितास्मि । मयापि तापसीवेषया तथा ज्ञात्वा राज्ञः समीपे समागम्यते । एप विज्ञानशर्मा अमात्य आगच्छति । भवतु । वेषेण प्रतारयाम्येनम् । यद्यपि सर्वस्मिन्नपि कार्येऽस्यानुमति विना राजा न प्रवर्तते तथापि यन्मम संशयो वर्तते तदेककस्य प्रकाशो न भवेत् ।
(ख) अस्य प्रतिवचनं भाषान्तरेण भणामि । अन्यथा कथमपि ज्ञा. स्यति इयं सेति ।
For Private and Personal Use Only