SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४ www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir पुण्डरीक केयूरकमयूरकसारङ्गकतरङ्गकप्रभृतयः संनह्यन्ति । तथापि प्रयोगस्य बहुत्वेन दुरवगाहतया कथमभीप्सितार्थसिद्धिर्भविष्यतीति विचारेण व्याकृष्यत इव मे हृदयम् । सूत्रधारः --- यत्किंचिदेतत् । महतामेषां सामाजिकानामनुग्रह एवास्माकमभीप्सितमर्थ समग्रयिष्यति । यतः । जाड्यं भिनत्ति जनयत्यधिकं पटुत्वं सार्वज्ञमावहति संमदमातनोति । विद्वेषिवर्गविजयाय धृतिं विधत्ते किं किं करोति न महद्भजनं जनस्य ॥ १४ ॥ पारिपार्श्वकः एवं च मन्ये त्वया सह स्पर्धमानोऽपि विकटनामा नटवदुरभिनयविद्यायां महदनुग्रहात्त्वयैव विजेप्यत इति । सूत्रधारः -- विकटो नाम नटबटुर्मया सह स्पर्धेत इत्यतत्त्वविदो वचनम् । शृणु तावत् । अभिनयविद्याविषये दुरहंकाराकुलीकृतो विकटः । स बटु वाञ्छन्त्यभिभवितुं जीवमिव यक्ष्मा ॥ १५ ॥ (नेपथ्ये) अरे रे शैलूषापसद, 'अभिभवितुं जीवमित्र यक्ष्मा' इति किमसंभावित - म दृष्टान्तयसि । मयि जीवति जीवस्य स्वामिनो मन्त्रिणि प्रिये । दुर्बलो यक्ष्महतकः कथं वाभिभूषति ॥ १६ ॥ सूत्रधारः - (आकर्ण्य ) मारिष, जीवराजमन्त्रिणो विज्ञानशर्मणो भूमिकामादाय मम कनीयान्कलहंसो रङ्गभुवमवतरति । तदावामप्यनन्तरकरणीयाय सज्जीभवावः । ( इति निष्क्रान्ती ।) प्रस्तावना | For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy