________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
जीवानन्दनम् । सूत्रधारः-(विहस्य ।) मारिष, त्वं न जानासि यत एवं ब्रवीषि । शृणु तावत् ।
आबाल्यादपि पोषितोऽजनि मया प्रेम्णा तथा लालित___ स्तेनासौ सरसामुपैतु कवितामानन्दरायाध्वरी । इत्येकक्षितिपालवंशजलधेर्देव्या गिरां जातया
श्रीशाहावनिनायकाकृतिभृता नूनं प्रसादः कृतः ॥ १० ॥ अत एव
कवीनां पूर्वेषां कथमपि च चित्तैरवहितै__गृहीता या नासीत्सरसकवितासारपदवी । असौ तामाक्रामन्हरति नरसिंहाध्वरिकुल
प्रदीपः सूरीणां श्रवणयुगजाड्यान्धतमसम् ॥ ११ ॥ पारिपार्श्वकः--श्रीशाहराज इति नाम दधत्याः सरस्वत्याः कियानानन्दरायमखिनि दयाविशेपः । यतः ।
पुप्यत्कौतुकपद्मसंभृतकरद्वन्द्वाङ्गुलीवेल्लन
द्रातिप्पीडितचन्द्रमण्डलगलत्पीयूपधारासखैः । वाग्गुम्फैलवैरिधारितशचीधम्मिलमल्लीसर
स्फारामोदमदापहैश्च कवयत्यानन्दरायाध्वरी ॥ १२ ॥ युक्तमुक्तं च भावेन 'शाहभूपतिरूपेण गिरां देवी जाता' इति । कथमन्यथानन्यसाधारणमस्य प्रागल्भ्यम् । तदिदानीमिदमुत्प्रेक्ष्यते
भर्तु लालयितुं भुवि प्रथयितुं विट्ठजनानाश्रिता- . __ श्रीशाहक्षितिपात्मना क्षितिगतां मत्वा गिरां देवताम् । आसिञ्चन्नसकृत्कमण्डलुजलैरङ्गानि पर्याकुलो।
धाता वाहनहंसपक्षपवनस्तापं किलापोहति ॥ १३ ॥ सूत्रधारः-तन्नियोजय भूमिपरिग्रहायास्मद्वर्य शैलूषगणम् ।
पारिपार्थकः-बाढम् । किं तु सन्ति कथानायकस्य जीवस्य परिजना विज्ञानशर्मप्रभृतयः प्रतिनायकस्य च यक्ष्मणः परिजनाः पाण्डश्वासकासज्वरगुल्मातिसारप्रभृतयः । तेषां यद्यपि भूमिकाग्रहणपटवो नटबटवः
For Private and Personal Use Only