SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। पारिपार्थकः-अतः किमाचरितव्यम् । सूत्रधारः-शृणु तावत् । अत्र तञ्जापुरे पौरजानपदा देशान्तरादागताश्च बृहदीश्वररथोत्सवदिदृक्षया संघीभूताः । सरसकवितानाम्नो हेम्नः कपोपलतां गता विहरणभुवः षड्दर्शन्या विवेकधनाकराः । विदधति तपोलम्याः सभ्या इमे मम कौतुकं तदिह हृदयं नाट्येनैतानुपासितुमीहते ॥ ५ ॥ पारिपार्थकः--(सशिर:कम्पम् ।) कं पुनः प्रबन्धमवलम्ब्य । सूत्रधारः-नन्वस्ति मम वशे सहृदयजनहृदयचन्दनं जीवानन्दनं नाम नवीनं नाटकमिति । पारिपार्श्वकः-कस्तस्य प्रबन्धस्य कविः । सूत्रधारः-विद्वत्कविकल्पतरुरानन्दरायमखी । य एष इह गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः । दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव ॥ ६ ॥ यः स्नातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्रितो येनाकारि सहस्रदक्षिणमखो यः सद्भिराश्रीयते । सोऽयं व्यम्बकराययज्वतिलको विद्वत्कवीनां प्रभो यत्तातस्य नृसिंहरायमखिनस्तुल्यप्रभावोऽनुजः ॥ ७ ॥ पारिपार्श्वकः-(सबहुमानम् ।) आः, ज्ञायत एवायम् । किं त्वस्य सर्वलोकविदिता अप्येते गुणाः प्रबन्धनिर्वाहधूर्वहत्वमवबोधयितुं नेशते । यतः। आराध्नोति यदेष भक्तिभरितो देवान्द्विजातीन्गुरू__ न्यच्च श्रद्दधदातनोति समये नित्यादिकर्मत्रिकम् । यद्दीनेषु दयां करोति समरे शौर्य यदालम्बते ____ तत्सर्व नरसिंहयज्वसुततालाभस्य लीलायितम् ॥ ८॥ इदं तु श्रोतव्यम् । आनन्दरायमखिनो वाल्मीकेरिव योगिनः । इतरापेक्षणात्सारः स्वतः सारस्वतोदयः ॥ ९ ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy