SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अपि च । www.kobatirth.org काव्यमाला | श्रीमदानन्दरायमखिप्रणीतं जीवानन्दनम् । प्रथमोऽङ्कः । लक्ष्मीकैरवबन्धुकल्पकतरूंल्लब्ध्वाथ लब्धेप्सिते भूयो मति देवदानवगणे दुग्धाब्धिमृद्धश्रमे । तस्यानन्दथुना समं समुदयन्कुम्भं सुधापूरितं विभ्राणः स्वकरे करोतु भवतां भद्राणि धन्वन्तरिः ॥ १ ॥ अपि च । Acharya Shri Kailassagarsuri Gyanmandir प्राग्जन्मीयतपः फलं तनुभृतां प्राप्येत मानुष्यकं तच्च प्राप्तवता किमन्यदुचितं प्राप्तुं त्रिवर्ग विना । तत्प्राप्तेरपि साधनं प्रथमतो देहो रुजावर्जित स्तेनारोग्यमभीप्सितं दिशतु वो देवः पशूनां पतिः ॥ २ ॥ (नान्द्यन्ते) सूत्रधारः - मारिप, इतस्तावत् । (प्रविश्य) पारिपार्श्वकः- भाव, एपोऽस्मि । सूत्रधारः रीतिः सुखपदन्यासा शारदीया विजृम्भते । पूर्णचन्द्रोदयश्चायं निहन्ति ध्वान्तमामयम् || ३ || क्रममाणेषु दिगन्ते जलधरजालेषु शङ्खधवलेषु । शान्तिमुपयाति सहसा कालुप्यदशा भृशं पयसाम् ॥ ४ ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy