SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ जवनिकान्तरम्] कर्पूरमञ्जरी । ८९ राजा-अहो कप्पूरमञ्जरीए अहिणवत्थदंसणं, रमणीओ सद्दो, उत्तिविचित्तदा, रसणिस्सन्दो अ । (तां प्रति ।) मा कहिं पि वअणेण विब्भमो होउ इत्ति तुह णूणमिन्दुणा । लञ्छणच्छलमसीविसेसओ पेक्ख बिम्बफलए णिए किदो ॥ ३२ ।। किं च । पण्डुरेण जइ रजए मुहं कोमलङ्गि खडिआरसेण दे । दिजए उण कपोलकजलं ता लहेदि ससिणो विडम्बणं ॥ ३३ ॥ (चन्द्रमुद्दिश्य ।) मुक्कसङ्क हरिणङ्क किं तुमं सुन्दरीपरिसरेण हिण्डसि । गोरगण्डपरिपण्डुरत्तणं पेच्छ दिण्णममुणा मुहेण दे ॥ ३४ ॥ मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे । भाति लाञ्छनमृगः स्फुरन्केलिकोकिलतुलां धारयन् ।। राजा अहो कर्पूरमञ्जर्या अभिनवार्थदर्शनम्, रमणीयः शब्दः, उक्तिविचित्रता, रसनिःष्पन्दश्च । मा कथमपि वदनेन विभ्रमो भवत्विति तव नूनमिन्दुना। . लाञ्छनच्छलमपीविशेषकः पश्य बिम्बफलके निजे कृतः ॥ किं च । पाण्डुरेण यदि रज्यते मुखं कोमलाङ्गि खटिकारसेन ते । दीयते पुनः कपोलकजलं तदा लभते शशिनो विडम्बनम् ॥ मुक्तशङ्कः हरिणाङ्क किं त्वं सुन्दरीपरिसरेण हिण्डसे । गौरगण्डपरिपाण्डुरत्वं पश्य दत्तममुना मुखेन ते ॥ अनेन सुन्दरीमुखेन ते तुभ्यं गौरगण्डपरिपाण्डुरत्वं दत्तमिति त्वमेव पश्येति वाक्यार्थः कर्म । तादृशसुन्दरीसविधे त्वं किं कुतो न परिभ्रमसि । अत्यनुचितं करोषीति भावः । अत एव साभिप्रायं संबोधनमाह-मुक्तशङ्केति । एतादृशं वस्तु यत: प्राप्तं तत्र भक्तिर्नास्तीति किमच्यते, शङ्कापि लोकलज्जापि ते नास्तीति महदाश्चर्यमिति भावः । यद्वा यदेकदेशमुखैकदेशेनापि तवैतावद्दत्तं तनिकटाटनेन विशेषान्तरप्राप्तिरपि संभाव्यते । तदपि त्वं नाचरसीति महानज्ञस्त्वमिति भावः । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy