SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ..स काव्यमाला। विदूषकः दिसवहुतंसो णहसरहंसो। णिहुअणकन्दो पसरइ चन्दो ।। २९ ॥ कुरङ्गिका ससहररइअमरहो माणिणिमाणघरहो।। णवचम्पअकोदण्डो मअणो जअइ पअण्डो ॥ ३० ॥ (कर्पूरमञ्जरी प्रति ।) पिअसहि, तुए कदं चन्दवण्णणं महाराअस्स पुरदो पढिस्सं । (कर्पूरमञ्जरी लज्जते । कुरङ्गिका पठति ।) मण्डले ससहरस्स गोरए दन्तपञ्जरविलासचोरए । भादि लञ्छणमिओ फुरन्तओ केलिकोइलतुलं धरन्तओ ॥ ३१॥ अपि च। ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु श्लक्ष्णां ज्योत्स्नां किरन्तो भुवनजनमनआनन्दनं चन्दनमिव । जीर्ण कंदर्पकन्दं त्रिभुवनकलनाकन्दलितं कुर्वन्तो जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥ श्वक्षणां कोमलां ज्योत्स्नां किरन्त इति संबन्धः । तादृशास्ते कीदृशा इव कर्पूरपूरच्छुरणं ददत इवेति विशिष्टवैशिष्टयन्यायेन संबन्धः । दिशासुन्दरीणामित्युभयत्र संबध्यते । त्रिभुवनेति । विनाकामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लवयन्तः । इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्गयम् । जलधरोन्मुक्तधारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते । विदूषकः दिग्वधूत्तंसो नभःसरोहंसः । निधुवनकन्दः प्रसरति चन्द्रः ॥ हंस इत्यनेन धवलिमातिशयो द्योत्यते । कुरङ्गिका शशधररचितगर्यो मानिनीमानघरट्टः । नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥ घरह: पेषणकर्ता । प्रियसखि, त्वया कृतं चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy