________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६
काव्यमाला।
(नेपथ्ये ।) वैतालिकः-सुहणिबन्धणो होदु देवस्स चन्दुजोओ। भूगोले तिमिराणुबन्धमलिणे भूमीरुहे व्व हिदे
संजादा णवभुजपिञ्जरमुही जोलाअ पुव्वा दिसा । मुश्चन्तो मुचुकुन्दकेसरसिरीसोहाणुआरे करे
चन्दो पेक्ख कलाकमेण अगदो संपुण्णबिम्बत्तणम् ॥२५॥ अवि अ।
अकुङ्कुममचन्दणं दहदिहावहूमण्डणं __ अकङ्कणमकुण्डलं भुअणमण्डलीभूसणम् । असोसणममोहणं मअरलञ्छणस्साउहं
मिअङ्ककिरणावली णहअलम्मि पुञ्जिज्जइ ॥ २६ ॥ ये नवस्य पुसस्य कण्टका ये कदम्बमुकुलस्य केसराः ।
अद्य तव करस्पर्शसङ्गिनस्ते भवन्ति ममाङ्गनिर्जिताः ॥ कार्ये कारणवदुपचारादेहजन्यरोमाञ्चनिजिता इत्यर्थः । वैतालिकःसुखनिबन्धनो भवतु देवस्य चन्द्रोद्दयोतः ।
भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते __ संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा । मुञ्चन्मुचुकुन्दकेसरश्रीशोभानुकारान्करां
श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णबिम्बत्वम् ।। तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमीरुह इव स्थिते । चन्द्रोदयानन्तरं यथा वृक्षमात्रमेव नीलमीक्ष्यते तथा श्यामे भूगोले स्थिते सतीत्यर्थः । 'भूमीघरे' इति वा पाठः । तत्र भूमिगृहे इत्यर्थः । एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः । अपि च ।
अकुङ्कममचन्दनं दशदिशावधूमण्डनं _अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम् । अशोषणममोहनं मकरलाञ्छनस्यायुधं
मृगाङ्गकिरणावली नभस्तले पुञ्जीभवति ।
For Private and Personal Use Only