________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
गणिकानिशान्तघटचेटिकाविटाः ___ कतिचित्परे पुनरयं तु मे सखा । सफलीकरोति परयोषिदुन्नत
स्तनकुम्भिकुम्भपरिरम्भणैरुरः ॥ ५३ ॥ तदहमुद्यानं गत्वा पुरोहितपुत्रमन्वेषयामि । क पुनरितो गच्छति वयस्यः। किं ब्रवीषि— 'वेशवाटीम्' इति । सन्तु शुभास्ते पन्थानः । (कतिचित्पदान्यतिक्रम्य ।) इयं खलु विशृङ्खलमदावष्टम्भविजृम्भमाणमदनधनुष्टंकारशङ्कावहमधुपझंकारमुखरशिखरा ललितरसालकिसलयास्वादसुहितपरभृतकुलबहुलकोलाहला मन्दमन्दस्यन्दमानमकरन्दबिन्दुसंदोहपरिपूरितकुसुमपरागपरम्परापरिकल्पितालवालरेखा विभाति वनरेखा । (वनप्रवेशं नायित्वा विलोक्य ।) अत्र हि
परागपालीघनसैकतासु मन्दं मिलिन्दा मधुवाहिनीषु ।
क्रीडन्ति मन्दानिलकर्णधारसंचार्यमाणप्रसवप्लवामु ॥ ५४ ॥ (अन्यतो विलोक्य ।) आप्रभातमिहैव विहरन्ति पौरजारिण्यः ।
एतान्यङ्गजकेलिभमवलयान्येषा परिष्कारभू
रेतत्पल्लवतल्पमेष चिकुरस्त्रस्तःप्रसूनोच्चयः । एषा विस्मृतहारयष्टिरिदमालिप्तं पदं लक्तकै
रेताः कामुकलोकपादकमलन्यासैकधन्या भुवः ॥ ५५ ॥ (पदान्तरं गत्वा ।) कथमियमुद्यानपालिका मरालिका। सखि मरालिके, किमत्र कुसुमावचयार्थमागतो वयस्या मे वीतिहोत्रः । किं ब्रवीपि- 'अह इं। दाणिं एव्व कुसुमपुडिआहत्थो दक्षिणदो रुक्खवाडी पविट्टो' (क) इति ।
(क) अथ किम् । इदानीमेव कुसुमपुटिकाहस्तो दक्षिणतो वृक्षवाटी प्रविष्टः ।
१. 'तथा सखा' ख. २. वेश्यावाटीम्' ख-ग. ३. 'सुखित' का. ८. 'हस्तकः' क. ५. 'कथमिहोद्यान' ख-ग.
For Private and Personal Use Only