________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकन्दानन्दभाणः ।
कथयसि, न वञ्चयासि' इति । वयस्य, किंचित्कदापि किं कथितपूर्वमसत्यम्, येनाधुनाप्यसत्यकथनेन वञ्चयामि । किं ब्रवीषि
'काय॑ दधाति गात्रं गमयति निद्रालयं च नेत्रान्तः ।
विरहदहनातिरेकं विवृणोति श्वसितमारुतोऽपि तव ॥ ५१ ॥ किमत्र कारणम्' इति । (स्वगतम् ।) कथं कृतावहित्थोऽप्यहमनेन विदितोऽस्मि । (प्रकाशम् ।) अस्ति कारणम् । (कर्ण ।) एवमिदम् । किं ब्रवीपि--'अद्यैव पुरोहितपुत्रं वीतिहोत्रमाश्रयस्व' इति । किमद्याश्रयणमस्ति । स मे बालमित्रं पुरोहितपुत्रः । किं ब्रवीषि---'तर्हि सँ भवतो विदितवृत्तान्तः कार्तान्तिकशिरोमणिः स्वयं कंचिदन्तरायं पिशुनयंस्तस्याः पतिगृहगमनं निवारयति' इति । वयस्य, साधु मन्त्रितम् । क्व पुनरद्य पुरोहितपुत्रः। (सविमर्शम् ।) किं ब्रवीषि--'तेन नियतमद्य देवतार्चनाय कुसु. मान्यवचिन्वता पुरोद्याने स्थातव्यम्' इति । कलकण्ठ, किं ब्रवीषि-'चेडिआअच्चणायेत्ति भणिदव्वम्' (क) इति । आः दुर्मते, पूजाहेप्वपि यत्किचित्प्रलपसि । किं ब्रवीपि- 'कहं पूआअरिहो सो, सन्दिहोमबलिकम्मएमु जं दक्खिणेत्ति दविणं गहिअदि तप्पणीकदुअ मत्थएण जो चडिआणं चरणाई वन्दइ' (ख) इति । वयस्य, त्वमपि किं ब्रवीषि-'सखे, एवमेतत् ।
विस्फूर्जत्तिमिरे कुटीरकुहरे दृङ्मीलितोन्मीलितै___ रायासेन पुरीपुरोहितसुतैस्तावन्निशा नीयते । सायं स्वीकृतदक्षिणावसुपणो यावन्निजस्वामिनी
प्रस्वापावधिकोपचारनिरतो नाभ्येति दासीजनः ॥ ५२ ॥ इति । (सोपहासम् ।) वयस्य, न जानासि ।
(क) चेटिकार्चनायेति भणितव्यम् ।। (ख) कथं पूजार्हः सः, शान्तिहोमवलिकर्मकेषु यद्दक्षिणेति द्रविणं गृह्यते तत्पणीकृत्य मस्तकेन यश्चेटिकानां चरणानि वन्दति ।
१. 'असत्य वचनेन' ख-ग. २. 'एवमिति' ख-ग. ३. 'आश्रयणीयं' ख-ग. ४. 'स एव' ख-ग. ५. 'हा' ख.
For Private and Personal Use Only