________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ जवनिकान्तरम् कर्पूरमञ्जरी ।
तृतीयं जवनिकान्तरम् ।
(ततः प्रविशति राजा विदूषकश्च ।) राजा--(तामनुसंधाय ।) दूरे किजदु चम्पअस्स कलिआ कजं हरिद्दाअ किं
उत्तत्तेण अ कंचणेण गणना का णाम जच्चेण वि। लावण्णस्स णवुग्गदेन्दुमहुरच्छाअस्स तिस्सा पुरो
पञ्चग्गेहिं वि केसरस्स कुसुमक्केरेहिं किं कारणं ॥ १ ॥ अवि अ।
मरगअमणिजुट्ठा हारलहि व्व तारा
भमरकवलिअद्धा मालईमालिए व्व । रहसवलिअकण्ठी तीअ दिट्ठी वरिहा
सवणपहणिविट्ठा माणसं मे पविट्ठा ॥ २ ॥ विदूषकः-भो वअस्स,, किं तुमं मजाजिदो विअ किंपि किंपि कुरुकुराअन्तो चिहसि। दूरेति।
दूरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रायाः किं ___उत्तप्तेन च काञ्चनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्दुमधुरच्छायस्य तस्याः पुरः
प्रत्यग्रैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥ तस्या लावण्यस्येति संबन्धः । अत्राक्षेपोपमे । आक्षेपलक्षणमुक्तं वृद्धैः-'प्रतिषेधपुरःसरोक्तिराक्षेपः ।' काव्यादर्शेऽपि–प्रतिषेधोक्तिराक्षेपः' इति । 'आप च ।
मरकतमणिजुष्टा हारट ष्टिरिव तारा
भ्रमरकवलितार्धा मालतीमालिकेव । रभसवलितकण्ठी तस्या दृष्टिर्वरिष्ठा
श्रवणपथनिविष्टा मानसं मे प्रविष्टा ॥ तारैव भ्रमरस्तेन कवलितमधैं यस्या इति वा । अत्रापि रूपकोत्प्रेक्षे । विदूषकःभो वयस्य, किं त्वं भार्याजित इव किमपि किमपि कुरुकुरायमाणस्तिष्ठसि ।
For Private and Personal Use Only