________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम्] कर्पूरमञ्जरी। एहिं तं संपादइस्सदि।
विदूषकः–ता मरगअपुञ्जादो पिअवअस्सं आणीअ तमालविडबंतरिदं ठाविअ एवं पञ्चक्खं करइस्सं । (तथा नाट यित्वा । राजानं प्रति ।) भो भो, उहिअ पेक्ख णिअहिअअसमुदचंदलेहं ।
(राजा तथा करोति ।) (ततः प्रविशति विशेषभूषिताङ्गी कर्पूरमञ्जरी ।) कर्पूरमञ्जरी-कहिं उण विअक्खणा । विचक्षणा-(तामुपसृत्य ।) सहि, करीअदु देवीए समादिहें । राजा-वअस्स, किं उण तं । यद्यस्मात्कारणाकामिनीनामालिङ्गनदर्शनाग्रचरणहताः सन्तः कुरबकादयो वृक्षा विकसन्ति उत्फला भवन्ति तत्तस्मात्तेषां दोहदकं देहीति यत्पदाध्याहारेण योज्यम् । यद्वा तदिदमिति तच्छब्देन पर्वोक्तालिङ्गनादि परामृश्य योज्यम् , तदा न यत्पदाध्याहारः । कुरबका दित्रयस्य कामिन्यालिङ्गनादित्रयेणैव विकासो वर्ण्यत इति कविसंप्रदायः । तथोक्तम्-‘पादाहत: प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबकः कुरुते विकासमालोकितस्तिलक उत्कलिको विभाति ॥' इति । 'आलिङ्गनेनैव मृगायताक्ष्या: प्रफुल्लतां वै तिलकः प्रयाति । अशोकशाखी पुनरङ्गिपातैविवेकशाली विरलो हि लोके ॥' इति च । अत्रापि च्छेकानुप्रासः ।
इदानीं तत्संपादयिष्यति । विदूषकः
तन्मरकतपुञ्जात्प्रियवयस्यमानीय तमालविटपान्तरितं स्थापयित्वा एतप्रत्यक्ष कारयिष्यामि । भो भोः, उत्थाय प्रेक्षस्व निजहृदयसमद्रचन्द्रलेखाम् । निजहृदयमेव समुद्रस्तत्र चन्द्रलेखेव कपरम अरी ताम् । कपूरमञ्जरी-- क पुनर्विचक्षणा। विचक्षणासखि, क्रियतां देव्या समादिष्टम् । कुरबकादीनां दोहददानमित्यर्थः । राजा-- वयस्य, किं पुनस्तत् ।
For Private and Personal Use Only