________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ जवनिकान्तरम् कर्पूरमञ्जरी।
विदूषकः-एदं तं मरगअपुंज। इह उवविसिअ पिअवअस्सो पडिवालेदु तं । संझावि संणिहिदा वदि ।
(उभौ तथा कुरुतः।) राजा-अदिसिसिरं पि हिमाणि संदावदाइणिं अणुहवामि । विदूषकः-तालच्छीसहअरो खणं चिहदु देवो, जाव अहं सिसिरोपआरसामग्गि संपादेमि । (इति नाट्येन निष्क्रम्य पुरोऽवलोक्य च ।) किं उण एसा विअक्खणा इदो णिअडा आअच्छदि ।
राजा-संणिहिदो संकेअकालो कहिदो मंतीहिं पि । (स्मृत्वा । मदनाकूतमभिनीय।)
किसलअकरचरणा वि हु कुवलअणअणा मिअंकवअणावि ।।
अहह णवचंपअंगी तह बि तावेइ अच्चरिअं ॥ ४२ ॥ विदूषकः
एतत्तन्मरकतपुञ्जम् । इहोपविश्य प्रियवयस्यः प्रतिपालयतु ताम् । संध्यापि संनिहिता वर्तते । वयस्येति संबुद्धिश्च । 'विषकेण वक्तव्यो वयस्येति च भूपति: ।' इत्युक्तः । राजा--- अतिशिशिरामापि हिमानी संतापदायिनीमनुभवामि । 'हिमानी हिमसंहतिः' इति त्रिकाण्डी। विदूषकःतल्लक्ष्मीसहचरः क्षणं तिष्टतु देवः, यावदहं शिशिरोपचारसामग्री संपादयामि । किं पुनरेषा विचक्षणा इतो निकटा आगच्छति । तल्लक्ष्मी तत्कान्तिः । तन्मात्रसहाय इत्यर्थः । राजासंनिहितः संकेतकाल: कथितो मन्त्रिभ्यामपि । किसलयकरचरणापि खलु कुवलयनयना मृगाङ्कवदनापि ।
अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥ अत्रापि च्छेकानुप्रासविभावनारूपकाहेतुसंकररूपाः शब्दार्थालंकारा उह्याः । विभावनालक्षणमुक्तमभियुक्तैः---'कारणाभावेऽपि कार्योपक्षेपो विभावना' इति । अहेतुलक्षणमप्युक्तम् - 'कारणे सत्यपि कार्याभावोऽहेतुः' इति । अस्यैव संज्ञा विशेषोक्तिरिति काव्यप्रकाशे । संकरलक्षणमप्युक्तम्----'स्वातन्त्र्येणाङ्गत्वेन संशयेनैकपोन वालंकाराणामेकत्रावस्थानं संकरः' इति ।
For Private and Personal Use Only