________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
राजा-(सविषादम् ।) कधमवइण्णा कप्पूरमंजरी । रित्ता दोला, रित्तं अ मज्झ चित्तं, रित्ताई दसणुस्सुआई मज्झ णअणाई । विदूषकः-ता विज्जुल्लेहा विअ खणदिढणहा ।
राजा-मा एब्बं भण । हरिअंदपुरी विअ दिद्या पणडा अ । (स्मृ. तिनाटितकेन ।) मंजिट्टी ओढमुद्दा णवघडणसुवण्णुजला अंगलही
दिट्ठी बालेंदुलेहाधवलिमजइणी कुंतला कज्जलाहा । इत्थं वण्णाण रेहा विहरइ हरिणीचंचलच्छी अ एसा
कंदप्पो दीहदप्पी जुअजणजअणे पुण्णलक्खो चि भादि ॥ ४१॥ राजाकथमवतीर्णा कर्पूरमञ्जरी । रिक्ता दोला, रिक्तं च मम चित्तम्, रिक्तानि दर्शनोत्सुकानि मम नयनानि । विदूषकःतद्विद्युल्लेखेव क्षणदृष्टनष्टा । राजामैवं भण। हरिश्चन्द्रपुरीव दृष्टा प्रणष्टा च । स्मृतीति । स्मृतिलक्षणमुक्तं प्राक् । मंजिट्ठीति। माञ्जिष्टी ओष्ठमुद्रा नवघटनसुवर्णोज्ज्वलाङ्गयष्टि
दृष्टिबर्बालेन्दुरेखाधवलिमजयिनी कुन्तलाः कजलाभाः । इत्थं वर्णानां रेखा विहरति हरिणीचञ्चलाक्षी चैषा ___ कंदर्पो दीर्घदपी युवजनजये पूर्णलक्ष इव भाति ॥ माञ्जिष्टीत्यनेन मञ्जिष्टनिष्ठरक्ततातिशयवत्त्वमोष्ट मुद्रायां ध्वन्यते । नवा घटना यस्येति बहुव्रीहिः । तथा च तादृशस्वर्णनिरूपितचाकचक्यातिशयवत्त्वमङ्गेषु व्यज्यते । यष्टिरूपकेण च तनिष्ठाधिककृशत्वमङ्गेषु द्योत्यते । इन्दुरेखेत्यनेन चाकलङ्कित्वं ज्ञाप्यते । कज्जलाभा इत्यनेन कज्जलनिष्ठनीलिमातिशयवत्त्वं कुन्तलेष्वभिव्यज्यते। अथवा कज्जले आभा येषामिति विपर्यासोपमा । तल्लक्षणं काव्यादर्श दण्डिनोक्तम्-'सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ।' इति । इत्थमनिर्वचनीयाः । रेखापदेन चोच्चारणगतातिशयविशेषो लक्ष्यते । दी| दर्पोऽस्यास्तीति दीर्घदी । अनेन च लक्ष्यस्वाधीनीकरणे क्लेशलेशस्याप्यभावाद्र्वकणोऽपि न क्षीण इति भावः । पूर्णलक्ष्यत्वं स्वाधीनं यावल्लक्ष्यत्वमेव । अत्रापि रूपकोपमोत्प्रेक्षानुप्रासलक्षणा: शब्दार्थालंकारा ज्ञेयाः ।
For Private and Personal Use Only